भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 36

36.001

:ए इत्य् आदिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशो
ऽध्यायः ॥
% छप्तेर् {36}
:श् अथ षट्त्रिंशो ऽध्यायः
पवित्रारोपणविधानं
अग्निर् उवाच
प्रातः स्नानं कृत्वा द्वारपालान्(1) प्रपूज्य च ।अप्_36.001अब्।
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत्

36.002

पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं ।अप्_36.002अब्।
निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत्

36.003

पञ्चामृतैः कषायैश् च शुद्धगन्धोदकैस्ततः ।अप्_36.003अब्।
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं

36.004

अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत् (2) ।अप्_36.004अब्।
समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत्

36.005

द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिं ।अप्_36.005अब्।
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके

36.006

कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।अप्_36.006अब्।
:न्
1 लोकपालानिति ख, चिह्नितपुस्तकपाठः
2 प्रार्थयेन्न्यसेदिति ग, चिह्नितपुस्तकपाठः
:प् 105
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं

36.007

पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं ।अप्_36.007अब्।
शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर

36.008

पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च ।अप्_36.008अब्।
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः

36.009

पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च(1) ।अप्_36.009अब्।
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो

36.010

कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ।अप्_36.010अब्।
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम्

36.011

कनिष्टादि च देवाय वनमालाञ्च मूलतः ।अप्_36.011अब्।
हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत्

36.012

वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् ।अप्_36.012अब्।
प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः

36.013

अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।अप्_36.013अब्।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः

36.014

इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।अप्_36.014अब्।
वनमाला यथा देव कौस्तुभं सततं हृदि

36.015

तद्वत् पवित्रतन्तूंश् च पूजां च हृदये वह(2) ।अप्_36.015अब्।
कामतो ऽकामतो वापि यत्कृतं नियमार्चने

36.016

विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे ।अप्_36.016अब्।
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तके ऽर्पयेत्

36.017

दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्गुरुं ।अप्_36.017अब्।
:न्
1 रक्षाबन्धं विमुच्य चेति ख, चिह्नितपुस्तकपाठः । पवित्रं
मूलतो दद्याद्रक्षार्थं तद्विसृज्य चेति ङ,
चिह्नितपुस्तकपाठः
2 पवित्रकं त्वञ्च पूजायां हृदये वहेति ङ,
चिह्नितपुस्तकपाठः
:प् 106
विप्रान् भोजनवस्त्राद्यैर् दिवसं पक्षमेव वा

36.018

पवित्रं स्नानकाले च अवतार्य समर्पयेत् ।अप्_36.018अब्।
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं

36.019

विसर्जने ऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् ।अप्_36.019अब्।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम

36.020

व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः ।अप्_36.020अब्।
मध्ये सोमेशयोः प्रार्च्य विष्वक्सेनं हि तस्य च

36.021

पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् ।अप्_36.021अब्।
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः

36.022

तावद्युगसहस्राणि विष्णुलोके महीयते ।अप्_36.022अब्।
कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् ।अप्_36.022च्द्।
विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc