अग्नि पुराण · अध्याय 357
:ए इत्य् आग्नेये महापुराणे व्याकरणे उणादिसिद्धरूपं नाम
षत्पञ्चाशटधिकत्रिशततमो ऽध्यायः
:न्
1 पाठो ऽयं न साधु सङ्गच्छते
:प् 259
% छप्तेर् {357}
:श् अथ सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः
तिङ्विभक्तिसिद्धरूपं
कुमार उवाच
तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः ।अप्_357.001अब्।
तिङ्स्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि
सकर्मकार्मकाच्च कर्तरि द्विपदे स्मृताः ।अप्_357.002अब्।
सकर्मकाकर्मणि च तदादेशस्तथेरितः
वर्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः ।अप्_357.003अब्।
विध्यादौ लोडाशिषि च भूतानद्यतने च लङ्
भूते लुङ्लिट् परोक्षे ऽथ भाविन्यद्यतने च लुट् ।अप्_357.004अब्।
लिङाशिषि च शेषे ऽर्थे लड्भविष्यति ऌङ्भवेत्
लिङ्निमिमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् ।अप्_357.005अब्।
पूर्वं नव परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान
सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् ।अप्_357.006अब्।
त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः
उत्तम इ वहि महि भूवाद्या धातवः स्मृताः ।अप्_357.007अब्।
भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः
शीङः क्रीडो जुहोतिश् च जहातिश् च दधात्यपि ।अप्_357.008अब्।
दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेव च
तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः ।अप्_357.009अब्।
शवादिके विकरणे मनिश् चैव करोत्यपि
:प् 260
क्रीड्तिर्वृङो ग्रहिश्चोरिः पा नीरर्चिश् च नायकाः ।अप्_357.010अब्।
भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते
भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं ।अप्_357.011अब्।
भवाम्यावां भवावश् च भवामो ह्य् एधते कुलं
एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया ।अप्_357.012अब्।
एधेथे च समेधध्वे एधे ह्य् एधावहे धिया
एधामहे हरेर्भक्त्या पचतीत्यादि पूर्ववत् ।अप्_357.013अब्।
भूयते ऽनुभूयते ऽसौ भावे कर्मणि वै यकि
वुभूषति समीत्येवं णिचि भावयतीश्वरं ।अप्_357.014अब्।
यङि वोभूयते वाद्यं वोभोतेइ स्याच्च यङ्लुकि
पुत्रीयति पुत्रकाम्यत्येवं पटपटायते ।अप्_357.015अब्।
घटयत्य् अथ सनि णिचि बुभूषयति रूपकं
भवेद्भवेताञ्च लिङि भवेयुश् च भवेः परे ।अप्_357.016अब्।
भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च
एधेत एधेयातामेधेरन् मनसा श्रिया ।अप्_357.017अब्।
एधेथाश् च एधेयाथामेधेध्वमेधेय एधेवहि एधेमहि
अस्तु तावद्भवताम् लोटि भवन्तु भवताद्भव ।अप्_357.018अब्।
भवतं भवत भवानि भवाव च भवाम च
एधतामेधेतामेधन्तामेधै पचावहै पचामहै ।अप्_357.019अब्।
अभ्यनन्ददपचतामचन्नपचस् तथा
अभवतमभवतापचमपचावापचाम च ।अप्_357.020अब्।
ऐधतैर्धेतामैधध्वं ऐधे चैधामहीरितं(?)
अभूदभूतामभूवनभूश्चाभूवमेव लुङ् ।अप्_357.021अब्।
:प् 261
ऐधिष्टैधिसातां नरावैधिष्ठा एइधिषीदृशं
लिटि बभूव बभूवतुः बभूवुश् च बव्हूविथ ।अप्_357.022अब्।
बभूवथुर्वभूव च बभूविव बभूविम
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा ।अप्_357.023अब्।
एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा
लुटि भविता भवितारौ भवितारो हरादयः ।अप्_357.024अब्।
भवितासि भवितास्थो भवितास्मस् तथा वयं
पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं ।अप्_357.025अब्।
पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश् चरुं
लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ ।अप्_357.026अब्।
भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ
भूयास्त यूयं भूयासमहं भूयास्म सर्वदा ।अप्_357.027अब्।
यक्षीष्ट ह्य् एधिषीयास्तां यक्षीरन्नेधिसीय च
यक्षीवह्येधिसीमहि लिङि चायक्ष्यतेति ऌङ् ।अप्_357.028अब्।
अयक्ष्येतामयक्ष्यन्तायक्ष्ये ऽयक्ष्येथां युवां
अयक्ष्यध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् ।अप्_357.029अब्।
ऌटि स्याद्भविष्यतीति एधिष्यामह ईदृशम्
एवं विभावयिष्यन्ति बोभविष्यति रूपकं ।अप्_357.030अब्।
घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0