भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 329

329.001

:ए इत्य् आग्नेये महापुराणे छन्दःसारो
नामाष्टाविंशत्यधिकत्रिशततमो ऽध्यायः
:प् 185
% छप्तेर् {329}
:श् अथोनत्रिंशदधिकत्रिशततमो ऽध्यायः
छन्दःसारः
अग्निर् उवाच
पाद आपदपूरणे गायत्र्यो वसवः स्मृताः ।अप्_329.001अब्।
जगत्या आदित्याः पादो विराजो दिश ईरिताः

329.002

विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं ।अप्_329.002अब्।
आद्यं चतुष्पाच्चतुर्भिस्त्रिपात् सप्ताक्षरैः क्वचित्

329.003

सा गायत्री पदे नीवृत् तत्प्रतिष्ठादि षट् त्रिपात् ।अप्_329.003अब्।
बर्धमाना षडष्टाष्टा त्रिपात् षड्वसुभूधरैः

329.004

गायत्री त्रिपदा नीवृत् नागी नवनवर्तुभिः ।अप्_329.004अब्।
वाराही रसद्विरसा छन्दश्चाथ तृतीयकम्

329.005

द्विपाद् द्द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टुभैः स्मृतम् ।अप्_329.005अब्।
उष्णिक् छन्दो ऽष्टवसुकैः पादैर् वेदे प्रकीर्तितः

329.006

ककुबुष्णिगष्टसूर्यवस्वर्णां त्रिभिरेव सः ।अप्_329.006अब्।
पुनरुष्णिक् सूर्यवसुवस्वर्णैश् च त्रिपाद्भवेत्

329.007

परोष्णिक् परतस्तस्माच्चतुष्पादात् त्रिभिर्भवेत् ।अप्_329.007अब्।
साष्टाक्षरैर् अनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्वचित्

329.008

अष्टार्कसूर्यवर्णैः स्यात् मध्ये ऽन्ते च क्वचिद्भवेत् ।अप्_329.008अब्।
वृहतीजगत्यस्त्रयो गायत्र्याः पूर्वको यदि

329.009

तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी ।अप्_329.009अब्।
स्कन्धौ ग्रीवा क्रौष्टुके स्याद् यक्षे स्यद्वो वृहत्यपि

329.010

:प् 186
उपरिष्टाद्वृहत्यन्ते पुरस्ताद्वृहती पुनः ।अप्_329.010अब्।
क्वचिन्नवकाश् चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः

329.011

महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यपि ।अप्_329.011अब्।
भण्डिलः पङ्क्रिच्छन्दः स्यात्सूर्यार्काष्टाष्टवर्णकैः

329.012

पूर्वौ वेदयुजौ सतः पङ्क्तिश् च विपरीतकौ ।अप्_329.012अब्।
प्रस्तारपङ्क्तिः पुरतः पवादास्तारपङ्क्तिका

329.013

अक्षरपङ्क्तिः पञ्चकाश् चत्वारश्चाल्पशो द्वयं ।अप्_329.013अब्।
पदपङ्क्तिः पञ्च भवेच्चतुष्कं षट्ककत्रयम्

329.014

षट्कपञ्चभिर्गायत्रैः षड्भिश् च जगती भवेत् ।अप्_329.014अब्।
एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतीरिता

329.015

पुरस्ताज्योतिः प्रथमे मध्ये ज्योतिश् च मध्यतः ।अप्_329.015अब्।
उपरिष्टाज्योतिरन्त्यादेकस्मिन् पञ्चके तथा

329.016

भवेच्छन्दः शङ्कुमती षट्के छन्दःककुद्मती ।अप्_329.016अब्।
त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा(1)

329.017

विपरीता यवमध्या त्रिवृदेकेन वर्जिता ।अप्_329.017अब्।
भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत्

329.018

अवराट्स्याद्द्वाभ्यामधिकं सन्दिग्धो दैवतादितः ।अप्_329.018अब्।
आदिपादान्निश् चयः स्याच्छन्दसं देवता क्रमात्

329.019

अग्निः सूर्यः शशी जीवो वरुणश् चन्द्र एव च ।अप्_329.019अब्।
विश्वेदेवाश् च षड्जाद्याः स्वराः षड्जो वृषःक्रमात्

329.020

गान्धारो मध्यमश् चैव पञ्चमो धैवतस् तथा ।अप्_329.020अब्।
निषादवर्णाः श्वेतश् च सारङ्गश् च पिसङ्गकः

329.021

:न्
1 सपिपीलिकमध्यगेति ख..
:प् 187
कृष्णो नीलो लोहितश् च गौरी गायत्रिमुख्यके ।अप्_329.021अब्।
गौरीचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं

329.022

अग्निर्वैश्यः काश्यपश् च गौतमाङ्गिरसौ क्रमात् ।अप्_329.022अब्।
भार्गवः कौशिकश् चैव वाशिष्टो गोत्रमीरितं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc