अग्नि पुराण · अध्याय 328
:ए इत्य् आग्नेये महापुराणे छन्दःसारो नाम
सप्तविंशत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {328}
:श् अथाष्टाविंशत्यधिकत्रिशततमो ऽध्यायः
छन्दःसारः
अग्निर् उवाच
छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् ।अप्_328.001अब्।
पञ्चदशाक्षरी सा स्यात् प्राजापत्याष्टविर्णिका
यजुषां षडर्णा गायत्री साम्नां स्याद्द्वादशाक्षरा ।अप्_328.002अब्।
ऋचामष्टादशार्णा स्यात्साम्नां वर्धेत च द्वयं
ऋचां तुर्यञ्च वर्धेत प्राजापत्याचतुष्टयं ।अप्_328.003अब्।
वर्धेदेकैककं शेषे आतुर्यादेक्रमुत्सृजेत्
उष्णिगनुष्टुब् वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि ।अप्_328.004अब्।
तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः
तिस्रस्तिस्रः समान्यः स्युरेकैका आर्य एव च ।अप्_328.005अब्।
ऋग्यजुषां संज्ञाः स्युश् चतुःषष्टिपदे लिखेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0