अग्नि पुराण · अध्याय 325
:ए इत्य् आग्नेये महापुराणे अंशकादिर्नाम
चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः
:न्
1 कर्षकादिकमिति ख.. , छ.. च
:प् 179
% छप्तेर् {325}
:श् अथ पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः
गौर्यादिपूजा
ईश्वर उवाच
सौभाग्यादेरुमापूजां वक्ष्ये ऽहं भुक्तिमुक्तिदां ।अप्_325.001अब्।
मन्त्रध्यानं मण्डलञ्च मुद्रां होमादिसाधनम्
चित्रभानुं शिवं कालं महाशक्तिसमन्वितम् ।अप्_325.002अब्।
इडाद्यं परतोद्वृत्य सदेवः सविकारणम्
द्वितीयं द्वारकाक्रान्तं गौरीप्रीतिपदान्वितं ।अप्_325.003अब्।
चतुर्थ्यन्तं प्रकर्तव्यं गौय्या वै मूलवाचकं
ओं ह्रीं सः शौं गौर्यै नमः
तत्रार्णत्रितयेनैव जातियुक्तं षडङ्गुलम् ।अप्_325.004अब्।
आसनं प्रणवेणैव मूर्तिं वै हृदयेन तु
उदकाञ्च तथा कालं शिववीजं समुद्धरेत् ।अप्_325.005अब्।
प्राणं दीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम्
आसनं प्रणवेनात्र मूर्तिन्यासं हृदाचरेत् ।अप्_325.006अब्।
यामलं कथितं वत्स एकवीरं वदाम्य् अथ
व्यापकं सृष्टिसंयुक्तं वह्निमायाकृशानुभिः ।अप्_325.007अब्।
शिवशक्तिमयं वीजं वीजं हृदयादिविवर्जितं
गौरीं यजेद्धेमरूप्यां काष्ठजां शैलजादिकां ।अप्_325.008अब्।
पञ्चपिण्डां तथाव्यक्तां कोणे मध्ये तु पञ्चमं(1)
ललिता सुभगा गौरी क्षोभणी चाग्नितः क्रमात् ।अप्_325.009अब्।
:न्
1 पञ्चमी इति ञ..
:प् 180
वामा ज्येष्ठा क्रिया ज्ञाना वृत्ते पूर्वादितो यजेत्
सपीठे वामभागे तु शिवस्याव्यक्तरूपकम् ।अप्_325.010अब्।
व्यक्ता द्विनेत्रा त्र्यक्षरा शुद्धा वा शङ्करान्विता
पीठपद्मद्वयं तारा द्विभुजा वा चतुर्भजा ।अप्_325.011अब्।
सिंहस्था वा वृकस्था(1) वा अष्टाष्टादशसत्करा
स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका ।अप्_325.012अब्।
शरं धनुर्वा सव्येन पाणिनान्यतमं वहत्
वामेन पुस्तताम्बूलदण्डाभयकमण्डलुम् ।अप्_325.013अब्।
गणेशदर्पणेष्वासान्दद्यादेकैकशः क्रमात्
व्यक्ताव्यक्ताथवा कार्या पद्ममुद्रा स्मृतासने ।अप्_325.014अब्।
तिङ्गमुद्रा शिवस्योक्ता मुदा चावाहनी द्वयोः
शक्तिमुद्रा तु योन्याख्या चतुरस्रन्तु मण्डलं ।अप्_325.015अब्।
चतुरस्रं त्रिपत्राब्जं मध्यकोष्ठचतुष्टये
त्र्यश्रोर्धे चार्धचन्द्रस्तु द्विपदं द्विगुणं क्रमात् ।अप्_325.016अब्।
द्विगुणं द्वारकण्ठन्तु द्विगुणादुपकण्ठतः
द्वारत्रयं त्रयं दिक्षु अथ वा भद्रके यजेत् ।अप्_325.017अब्।
स्थण्डिले वाथ संस्याप्य पञ्चगव्यामृतादिना
रक्तपुष्पाणि देयानि पूजयित्वा ह्य् उदङ्मुखः ।अप्_325.018अब्।
शतं हुत्वामृताज्यञ्च पूर्णादः सर्वसिद्धिभाक्
बलिन्दत्वा कुमारीश् च तिस्रो वा चाष्ट भोजयेत्(2) ।अप्_325.019अब्।
नैवेद्यं शिवभक्तेषु दद्यान्न स्वयमाचरेत्
:न्
1 सिंहस्थावाह्यसिंहस्थेति ख.. , छ.. , ञ.. , ट.. च
2 स्त्रियो वाष्ट च भोजयेदिति ख.. , छ.. च
:प् 181
कन्यार्थौ लभते कन्यां अपुत्रः पुत्रमाप्नुयात् ।अप्_325.020अब्।
दुर्भगा चैव सौभाग्यं राजा राज्यं जयं रणे
अष्टलक्षैश् च वाक्सिद्धिर्देवाद्या वशमाप्नुयुः ।अप्_325.021अब्।
न निवेद्य न चास्नीयाद्वामहस्तेन चार्चयेत्
अष्टम्याञ्च चतुर्दश्यां तृतीयायां विशेषतः ।अप्_325.022अब्।
मृत्युञ्चयार्चनं वक्ष्ये पूजयेत् कलसोदरे
हूयमानञ्च प्रणवो मूर्तिरोजस ईदृशं ।अप्_325.023अब्।
मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत्
होमयेत् क्षीरदुर्वाज्यममृताञ्च पुनर्नवाम् ।अप्_325.024अब्।
पायसञ्च पुराडाशमयुतन्तु जपेन्मनुं
चतुर्मुखं चतुर्वाहुं द्वाभ्याञ्च कलसन्दधत् ।अप्_325.025अब्।
वरदाभयकं द्वाभ्यां स्नायाद्वैकुम्भमुद्रया
आरोग्यैश् चर्यदीर्घायुरौषधं मन्त्रितं शुभम् ।अप्_325.026अब्।
अपमृत्युहरो ध्यातः पूजितो ऽद्भुत एव सः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0