अग्नि पुराण · अध्याय 326
:ए इत्य् आग्नेये महापुराणे गौर्यादिपूजा नाम
पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {326}
:श् अथ षड्विंशत्यधिकत्रिशततमो ऽध्यायः
देवालयमाहात्म्यम्
ईश्वर+उवाच
व्रतेश्वरांश् च सत्यादीनिष्ट्वा व्रतसमर्पणम् ।अप्_326.001अब्।
अरिष्टशमने शस्तमरिष्टं सूत्रनायकम्
:प् 182
हेमरत्रमयं भूत्यै महाशङ्खञ्च मारणे ।अप्_326.002अब्।
आप्यायने शङ्खसूत्रं मौक्तिकं पुत्रवर्धनम्
स्फाटिकं भूतिदं कौशं मुक्तिदं(1) रुद्रनेत्रजं ।अप्_326.003अब्।
धाधीफलप्रमाणेन रुद्राक्षं चोत्तमन्ततः
समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् ।अप्_326.004अब्।
अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत्
तर्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घ्येज्जपे ।अप्_326.005अब्।
प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम्
सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् ।अप्_326.006अब्।
गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः
वेस्मायतनलिङ्गादेः कार्यमेवं विशोधनम् ।अप्_326.007अब्।
स्कन्दो नमः शिवायेति मन्त्रः सर्वार्थसाधकः
गीतः पञ्चाक्षरो वेदे लोके गीतःषडक्षरः ।अप्_326.008अब्।
ओमित्यन्ते स्थितः शम्भुर्मुद्रार्थं वटवीजवत्
क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः ।अप्_326.009अब्।
षडक्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं
यदोंनमः शिवायेति एतावत् परमं पदम् ।अप्_326.010अब्।
अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः
अनुग्रहाय लोकानां धर्मकामार्थमुक्तिदः ।अप्_326.011अब्।
यो न पूजयते लिङ्गन्न स धर्मादिभाजनं
लिङ्गार्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् ।अप्_326.012अब्।
वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं
:न्
1 भक्तिदमिति ख..
:प् 183
रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् ।अप्_326.013अब्।
सूर्यः स्यात् सुर्यपूजातः शक्त्यादिः शक्तिपूजनात्
सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं ।अप्_326.014अब्।
तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः
त्रिसन्ध्यं योर्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् ।अप्_326.015अब्।
शतैकादशिकं यावत् कुलमुद्धृत्य नाकभाक्
भक्त्या वित्तानुसारेण कुर्यात् प्रसादसञ्चयम् ।अप्_326.016अब्।
अल्पे महति वा तुल्यफलमाढ्यदरिद्रयोः
भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च ।अप्_326.017अब्।
धनस्य भागमेकन्तु(1)अनित्यं जीवितं यतः
त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थभाक् ।अप्_326.018अब्।
मृत्काष्ठेष्टकशैलाद्यैः क्रमात् कोटिगुणं फलम्
अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् ।अप्_326.019अब्।
पांशुना क्रीडमानोपि देवागारकृदर्थभाक्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0