अग्नि पुराण · अध्याय 324
:ए इत्य् आग्नेये महापुराणे रुद्रशान्तिर्नाम
त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {324}
:श् अथ चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः
अंशकादिः
ईश्वर उवाच
रुद्राक्षकटकं धार्यं विषमं सुसमं दृडम् ।अप्_324.001अब्।
एकत्रिपञ्चवदनं यथालाभन्तु धारयेत्
द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं ।अप्_324.002अब्।
दक्षवाहौ शिखादौ च धारयेच्चतुराननं
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ।अप्_324.003अब्।
हैमी वा मुद्रिका धार्या(1) शिवमन्त्रेण चार्च्य तु
:न्
1 कार्येति ख..
:प् 177
शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः ।अप्_324.004अब्।
गोचरन्तु कुलं ज्ञेयं तेन लक्ष्यस्तु दीक्षितः
प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे ।अप्_324.005अब्।
कुटिलाश् चैव वेतालाः पद्महंसाः शिखाकुले
धृतराष्ट्रा वकाः काका गोपाला ज्योतिसंज्ञके ।अप्_324.006अब्।
कुटिका साठराश् चैव गुटिका दण्डिनो ऽपरे
सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः ।अप्_324.007अब्।
सिद्धाद्यंशकमाख्यास्ये येन मन्त्रःसुसिद्धिदः
भूमौ तु मातृका लेख्याः कूटषण्डाववर्जिताः ।अप्_324.008अब्।
मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक्
साधकस्य तु या संज्ञा तस्या विश्लेषणं चरेत् ।अप्_324.009अब्।
मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत्
सिद्धः साध्यः सुशिद्धो ऽरिः संज्ञातो गणयेत् क्रमात् ।अप्_324.010अब्।
मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः
सिद्धादिश्चान्तसिद्धश् च तत्क्षणादेव सिध्यति ।अप्_324.011अब्।
सुसिद्धादिः सुसिद्धन्तःसिद्धवत् परिकल्पयेत्
अरिमादौ तथान्ते च दूरतः परिवर्जयेत् ।अप्_324.012अब्।
सिद्धः सुसिद्धश् चैकार्थे अरिः साध्यस्तथैव च
आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि ।अप्_324.013अब्।
मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि
मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके ।अप्_324.014अब्।
ब्रह्मांशको ब्रह्मविद्या विष्ण्वङ्गो(1) वैष्णवःस्मृतः
:न्
1 विष्ण्वंश इति ञ..
:प् 178
रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः ।अप्_324.015अब्।
नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः
गन्धर्वांशो ऽतिगीतादि भीमांशो राक्षसांशकः ।अप्_324.016अब्।
दैर्यांशः स्याद् युद्धकार्यो मानी विद्याधरांशकः
पिशाचांशो मलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च ।अप्_324.017अब्।
मन्त्र एकात् फडन्तः स्यात् विद्यापञ्चाशतावधि
बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा ।अप्_324.018अब्।
तत ऊर्ध्वन्तु ये मन्त्रा दृद्धा यावच्छतत्रयं
अकारादिहकारन्ताः क्रमात् पक्षौ सितासितौ ।अप्_324.019अब्।
अनुस्वारविसर्गेण विना चैव स्वरा दश
ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयःप्रतिपम्मुखाः ।अप्_324.020अब्।
उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम्
भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भने ऽस्तकम् ।अप्_324.021अब्।
इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम्(1)
मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् ।अप्_324.022अब्।
अधरस्य गृहे पृथ्वी ऊर्ध्वे तेजो ऽन्तरा द्रवः
रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः ।अप्_324.023अब्।
स्तम्भनं पार्थिवे शान्तिर्जले वश्यादि तेजसे ।अप्_324.023च्द्।
वायौ स्याद् भ्रमणं शून्ये पुण्यं कालं समभ्यसेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0