भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 323

323.001

ओं ओजसे नेत्रं ओं प्रस्फुर 2 तनुरूप 2 चट 2 प्रचट 2 कट 2
वम 2 घातय 2 हूं फट् अघोरास्त्रम् ॥
:ए इत्य् आग्नेये महापुराणे षडङ्गान्यघोरस्त्राणि नाम
द्वाविंशत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {323}
:श् अथ त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः
रुद्रशान्तिः
ईश्वर उवाच
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ।अप्_323.001अब्।
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः(1)

323.002

उत्तमाधमसिद्धीणामालयो ऽखिलरोगनुत् ।अप्_323.002अब्।
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः

323.003

विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ।अप्_323.003अब्।
प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम्

323.004

एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।अप्_323.004अब्।
:न्
1 ब्रह्महर्यादिमर्दन इति ख..
:प् 174
शान्तिके पौष्टिके शुक्लो रक्तो वश्ये ऽथ पीतकः

323.005

स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।अप्_323.005अब्।
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत्

323.006

त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।अप्_323.006अब्।
गुग्गुलामृतयुक्तेन सिद्धो ऽसिद्धो ऽथ सर्वकृत्

323.007

अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।अप्_323.007अब्।
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत्

323.008

अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ।अप्_323.008अब्।
जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत्

323.009

रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ।अप्_323.009अब्।
पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये

323.010

दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ।अप्_323.010अब्।
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च

323.011

अकालफलिते वृक्षे सर्वग्रहविमर्दने ।अप्_323.011अब्।
पूजने तु नमस्कारः स्वाहान्तो हवने तथा

323.012

आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ।अप्_323.012अब्।
चकारद्वितयस्थाने(1) जातियोगन्तु कारयेत्

323.013

ओं रुद्राय च ते ओं वृषभाय नमः अविमुक्ताय असम्भवाय
पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे
विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय
विकृतौ(2) चापरे काले अप्सु माया च नैरृते ।अप्_323.013अब्।
:न्
1 दकारद्वितयस्थान इति ञ.. । उकारद्वितयस्थान इति ट..
2 नियताविति ञ.. , ट.. च
:प् 175
एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः
मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य
शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ
मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय
सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद् दक्षिणे हले ।
एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय
वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु
वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये ।
सदाशिवाध्यक्ष्यतत्त्वे षट् पूज्याः पूर्वदले स्थिताः ।
उमायै कुरूपधारिणि ओं कुरु 2 रुहिणि 2 रुद्रोसि देवानां
देवदेवविशाख हन 2 दह 2 पच 2 मथ 2 तुरु 2 अरु 2 सुरु 2(1)
रुद्रशान्तिमनुस्मर कृष्णपिङ्गल
अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां
पूज्यौ ह्य् उमामहेश्वरौ । ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि
व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं
योगिने ध्यानाहाराय नमः । ओं नमःशिवाय सर्वप्रभवे
शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं
पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय
सद्योजातमूर्तये । ओं नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय
सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे
याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः
मायातत्त्वे नैरृते कालतत्त्वे
:न्
1 सूरु 2 इति ञ..
:प् 176
.अथ वारुणे । ओं धृ धृ नाना वां वां अनिधान
निधनोद्भव शिव सर्वपरमात्मन् महादेव सद्भावेश्वर महातेज
योगाधिपते मुञ्च 2 प्रमथ 2 ओं सर्व 2 ओं भव 2 ओं भवोद्भव ।
सर्वभूतसुखप्रद वायुपत्रे ऽथ नियतौ पुरुषे चोत्तरेन च ।
सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन 2
तुरु 2 पतङ्ग पिङ्ग 2 ज्ञान 2 शब्द 2 सूक्ष्म 2 शिव 2 सर्वप्रद 2
ओं नमःशिवाय ओं नमो नमः शिवाय ओं नमो नमः
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।अप्_323.013च्द्।
ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc