भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 317

317.001

:ए इत्य् आग्नेये महापुराणे सकलादिमन्त्रोद्धारो नाम
षोडशाधिकत्रिशततमो ऽध्यायः
:प् 158
% छप्तेर् {317}
:श् अथ सप्तदशाधिकत्रिशततमो ऽध्यायः
गणपूजा
इश्वर उवाच
विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् ।अप्_317.001अब्।
नरसिंहं ततो ऽधस्तात् कृतान्तं तदधो न्यसेत्

317.002

प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः ।अप्_317.002अब्।
अंशुमान् विश्वमूर्तिस्थं कण्ठोष्ठप्रणवादिकम्

317.003

नमो ऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् ।अप्_317.003अब्।
सूर्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत्(1)

317.004

उद्धरेत् प्रणवं पूर्वं प्रस्फुरद्वयमुच्चरेत् ।अप्_317.004अब्।
घोरघोरतरं पश्चात् तत्र रूपमतः स्मरेत्

317.005

चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् ।अप्_317.005अब्।
दहेति च द्विधा कार्यं वमेति च द्विधा गतम्(2)

317.006

घातयेति द्विधाकृत्य हूंफडन्तं समुच्चरेत् ।अप्_317.006अब्।
अघोरास्त्रन्तु नेत्रं स्याद् गायत्री चोच्यते ऽधुना

317.007

तन्महेशाय विद्महे महादेवाय धीमहि ।अप्_317.006*1अब्।
तत्रः शिवः प्रचोदयात् गायत्री सर्वसाधनी ॥अप्_317.006*1च्द्।
यात्रायां विजयादौ च यजेत् पूर्वङ्गणं श्रिये ।अप्_317.007अब्।
तुर्यांशे तु पुरा क्षेत्रे समन्तादर्कभाजिते

317.008

चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् ।अप्_317.008अब्।
:न्
1 सर्वत इति ख..
2 द्विधाकृतमिति ख..
:प् 159
तत्पृष्ठे पदिकाविथीभागि त्रिदलमश्वयुक्

317.009

वसुदेवसुतैः साब्जैस्तिदलैः पादपट्टिका ।अप्_317.009अब्।
तदूर्ध्वे वेदिका देया भगमात्रप्रमाणतः

317.010

द्वारं पद्ममितं कोष्ठादुपद्वारं विवर्णितम् ।अप्_317.010अब्।
द्वारोपद्वाररचितं मण्डलं विघ्नसूदनम्

317.011

आरक्तं कमलं मध्ये वाह्यपद्मानि तद्वहिः ।अप्_317.011अब्।
सिता तु वीथिका कार्या द्वाराणि तु यथेच्छया

317.012

कर्णिका पीतवर्णा स्यात् केशराणि तथा पुनः ।अप्_317.012अब्।
मण्डलं विघ्नमर्दाख्यं मध्ये गणपतिं यजेत्

317.013

नामाद्यं सवराकं स्याद्देवाच्छक्रसमन्वितम् ।अप्_317.013अब्।
शिरो हतं तत्पुरुषेण ओमाद्यञ्च नमो ऽन्तकम्

317.014

गजाख्यं गजशीर्षञ्च गाङ्गेयं गणनायकम् ।अप्_317.014अब्।
त्रिरावर्तङ्गगनगङ्गोपतिं पूर्वपङ्क्तिगम्

317.015

विचित्रांशं महाकायं लम्बोष्ठं लम्बकर्णकम् ।अप्_317.015अब्।
लम्बोदरं महाभागं विकृतं पार्वतीप्रियम्

317.016

भयावहञ्च भद्रञ्च भगणं भयसूदनम् ।अप्_317.016अब्।
द्वादशैते दशपङ्क्तौ देवत्रासञ्च पश्चिमे

317.017

महानादम्भास्वरञ्च विघ्नराजं गणाधिपम् ।अप्_317.017अब्।
उद्भटस्वानभश् चण्डौ महाशुण्डञ्च भीमकम्

317.018

मन्मथं मधुसूदञ्च सुन्दरं भावपुष्टकम् ।अप्_317.018अब्।
सौम्ये ब्रह्मेश्वरं ब्राह्मं मनोवृत्तिञ्च संलयम्

317.019

लयं दूत्यप्रियं लौल्यं विकर्णं वत्सलं तथा ।अप्_317.019अब्।
कृतान्तं कालदडण्च यजेत् कुम्भञ्च पूर्ववत्

317.020

:प् 160
श्रयुतञ्च जपेन्मन्त्रं होमयेत्तु दशांशतः ।अप्_317.020अब्।
शेषाणान्तु दशाहुत्या जपाद्धोमन्तु कारयेत्

317.021

पूर्णां दत्वाभिषेकन्तु कुर्यात्सर्वन्तु सिध्यति ।अप्_317.021अब्।
भूगो ऽश्वगजवस्त्राद्यैर् गुरुपूजाञ्चरेन्नरः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc