अग्नि पुराण · अध्याय 316
:ए इत्य् आग्नेये महापुराणे नानामन्त्रा नाम
पञ्चदशाधिकत्रिशततमो ऽध्यायः
% छप्तेर् {316}
:श् अथ षोडशाधिकत्रिशततमो ऽध्यायः
सकलादिमन्त्रोद्धारः
ईश्वर उवाच
सकलं निष्कलं शून्यं कलाढ्यं स्वमलङ्कृतम् ।अप्_316.001अब्।
क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमंशिवम्
प्रासादस्य(2) पराख्यस्य स्मृतं रूपं(3) गुहाष्टधा ।अप्_316.002अब्।
:न्
1 रिपुदुष्टादि वारयेदिति क.. , ट.. च
2 प्रसादस्येति ख..
3 स्मृतिरूपमिति ख..
:प् 155
सदाशिवस्य शब्दस्य रूपस्याखिलसिद्धये
अमृतश्चांशुभांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः ।अप्_316.003अब्।
एकपादेन ओजाख्य औषधश्चांशुमान् वशी
अकारादेः क्षकारश् च ककारादेः क्रमादिमे ।अप्_316.004अब्।
कामदेवः शिखण्डी च गणेशः कालशङ्करौ
एकनेत्रो द्विनेत्रश् च त्रिशिखो दीर्घबाहुकः(1) ।अप्_316.005अब्।
एकपादर्धचन्द्रश् च बलपो योगिनीप्रियः
शक्तीश्वरो महाग्रन्थिस्तर्पकः स्थाणुदन्तुरौ ।अप्_316.006अब्।
निधीशो नन्दी पद्मश् च तथान्यः शाकिनीप्रियः
सुखविम्बो भीषनश् च कृतान्तः प्राणसंज्ञकः ।अप्_316.007अब्।
तेजस्वी शक्र उदधिः श्रीकण्ठः सिंह एव च
शशाङ्को विश्वरूपश् च क्षश् च स्यान्नरसिंहकः ।अप्_316.008अब्।
सूर्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत्
अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् ।अप्_316.009अब्।
ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत्
तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा ।अप्_316.010अब्।
सप्तमं वामदेवन्तु सद्योजातन्ततःपरं
रसयुक्तन्तु नवमं ब्रह्मपञ्चपञ्चकमीरितम् ।अप्_316.011अब्।
ओंकाराद्याश् चतुर्थ्यन्ता नमोन्ताः सर्वमन्त्रकाः
सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् ।अप्_316.012अब्।
चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः
ऊहकन्तु शिखा ज्ञेया विश्वरूपसमन्विता ।अप्_316.013अब्।
:न्
1 त्रिशिखी चोर्ध्ववाहुक इति ख.. , छ.. च
:प् 156
तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम्
अस्त्रं शशी समाख्यातं शिवसंज्ञं शिखिध्यजः ।अप्_316.014अब्।
नमः स्वाहा तथा वौषत् हूं च फत्कक्रमेण तु
जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे(1) ।अप्_316.015अब्।
ईशानाद्रुद्रसंख्यातं प्रोद्धरेच्चांशुरञ्जितम्
औषधाक्रान्तशिरसमूहकस्योपरिस्थितं ।अप्_316.016अब्।
अर्धचन्द्रोर्धनादश् च विन्दुद्वितयमध्यगं
तदन्ते विश्वरूपन्तु कुटिलन्तु त्रिधा ततः ।अप्_316.017अब्।
एवं प्रासादमन्त्रश् च सर्वकर्मकरो मनुः
शिखावीजं समुद्धृत्य फट्कारान्तन्तु चैव फट् ।अप्_316.018अब्।
अर्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम्
महापाशुपतास्त्रन्तु सर्वदुष्टप्रमर्दनम् ।अप्_316.019अब्।
प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना
औषधं विश्वरूपन्तु रुद्राख्यं सूर्यमण्डलम् ।अप्_316.020अब्।
चन्द्रार्धं नादसंयोगं(2) विसंज्ञं कुटिलन्ततः
निष्कलो भुक्तिमुक्तौ स्यात्पञ्चाङ्गो ऽयं सदाशिवः ।अप्_316.021अब्।
अंशुमान् विश्वरूपञ्च आवृतं शून्यरञ्जितम्
ब्रह्माङ्गरहितः शून्यस्तस्य मूर्तिरसस्तरुः ।अप्_316.022अब्।
विघ्ननाशाय भवति पूजितो बालबालिशैः
अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् ।अप्_316.023अब्।
कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्वतः
नरसिंहं कृतान्तस्थं तेजस्विप्राणमूर्धगम् ।अप्_316.024अब्।
:न्
1 मन्त्रमादरेदिति ञ..
2 चन्द्रार्धनादसंयुक्तमिति ख..
:प् 157
अंशुमानूहकाक्रान्तमधोर्धं स्वसलङ्घृतम्
चन्द्रार्धनादनादान्तं ब्रह्मविष्णुविभूशित ।अप्_316.025अब्।
उदधिं नरसिंहञ्च सूर्यमात्राविभेदितम्
यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्ववत् ।अप्_316.026अब्।
ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत्
अशुमच्चांशुनाक्रान्तं द्वितीयं वर्णनायकम् ।अप्_316.027अब्।
अंशुमानीश्वरन्तद्वत् तृतीयं मुक्तिदायकम्
ऊहकञ्चांशुनाक्रान्तं वरुणप्रानतैजसम् ।अप्_316.028अब्।
पञ्चमन्तु समाख्यातं कृतान्तन्तु ततः परम्
अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् ।अप्_316.029अब्।
पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक्
प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् ।अप्_316.030अब्।
अस्यार्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा
सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् ।अप्_316.031अब्।
दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत्
नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा ।अप्_316.032अब्।
द्वितीयादष्टौ यावदष्टौ विद्येश्वरा मताः
अनन्तेशश् च सूक्ष्मश् च तृतीयश् च शिवोक्तमः ।अप्_316.033अब्।
एकमूर्च्येकरूपस्तु त्रिमूर्तिरपरस् तथा
श्रीकण्ठश् च शिखण्डी च अष्टौविद्येश्वराःस्मृताः ।अप्_316.034अब्।
शिखण्डिनो ऽप्यनन्तान्तं मन्त्रान्तं मूर्तिरीरिता
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0