अग्नि पुराण · अध्याय 315
:ए इत्य् आग्नेये महापुराणे स्तम्भनादिमन्त्रा नाम
चतुर्दशाधिकत्रिशततमो ऽध्यायः
% छप्तेर् {315}
:श् अथ पञ्चदशाधिकत्रिशततमो ऽध्यायः
नानामन्त्राः
अग्निर् उवाच
आदौ हूंकारसंयुक्ता खेचछे पदभूषिता ।अप्_315.001अब्।
वर्गातीतविसर्गेण ह्रीं हूंक्षेपफडन्तका
सर्वकर्मकरी विद्या विषसन्धादिमर्दनी ।अप्_315.002अब्।
:प् 154
ओं क्षेचछेतिप्रयोगश् च कालदष्टस्य जीवने
ओं हूं केक्षः प्रयोगोयं विषशत्रुप्रमर्दनः ।अप्_315.003अब्।
स्त्रीं हूं फडितियोगोयं पापरोगादिकं जयेत्
खेछेति च प्रयोगो ऽयं विघ्नदुष्टादि वारयेत्(1) ।अप्_315.004अब्।
ह्रूं स्त्रीं ओमितियोगो ऽयं योषिदादिवशीकरः
खे स्त्रीं खे च प्रयोगो ऽयं वशाय विजयाय च ।अप्_315.005अब्।
ऐं ह्रीं श्रीं स्फें क्षौं भगवति अम्बिके कुब्जिके स्फें ओं
भं तं वशनमो अघोराय सुखे व्रां व्रीं किलि किलि विच्चा
स्फ्रौं हे स्फ्रं श्रीं ह्रीं ऐं श्रीमिति कुब्जिकाविद्या
सर्वकरा स्मृता
भूयः स्कन्दाय यानाह मन्त्रानीशश् च तान् वदे
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0