भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 314

314.001

:ए इत्य् आग्नेये महापुराणे त्वरिताज्ञानं नाम
त्रयोदशाधिकत्रिशततमो ऽध्यायः
% छप्तेर् {314}
:श् अथ चतुर्दशाधिकत्रिशततमो ऽध्यायः
स्तम्भनादिमन्त्राः
अग्निर् उवाच
स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे ।अप्_314.001अब्।
विषव्याधिमरोगञ्च मारणं शमनं पुनः

314.002

भूर्जे कूर्मं समालिख्य ताडनेन षड्ङ्गुलम् ।अप्_314.002अब्।
मुखपादचतुर्ष्केषु ततो मन्त्रं न्यसेद्द्विजः

314.003

चतुष्पादेषु क्रीं कारं ह्रीं कारं मुखमध्यतः ।अप्_314.003अब्।
गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत्

314.004

:प् 152
मालामन्त्रैस्तु संवेष्ट्य इष्टकोपरि सन्न्यमेत् ।अप्_314.004अब्।
विधाय कूर्मपृष्ठेन करालेनाभिसम्पठेनत्

314.005

महाकूर्मं पूजयित्वा पादप्रोक्षन्तु निक्षिपेत् ।अप्_314.005अब्।
ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा

314.006

ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः ।अप्_314.006अब्।
कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत्

314.007

ओं शत्रुसुखस्तम्भनी कामरूपा आलीढकरी
ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां
मुखं स्तम्भय 2 मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु 2
ओं हूं फें फेत्कारिणि स्वाहा
फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं ।अप्_314.007अब्।
वामेनैव नगं शूलं संलिखेद्दक्षिणे करे

314.008

लिखेन्मन्त्रमघोरस्य संग्रामे स्तम्भयेदरीन् ।अप्_314.008अब्।
ओं नमो भगवत्यै भगमालिनि विस्फुर 2 स्पन्द 2 नित्यक्लिन्ने द्रव 2 हूं
सः क्रीं काराक्षरे स्वाहा ॥
एतेन रोचनाद्यैस्तु तिलकाम्मोहयेज्जगत्

314.009

ओं फें हूं फट् फेत्कारिणि ह्रीं ज्वल 2 त्रैलोक्यं मोहय 2
गुह्यकालिके स्वाहा
अनेन तिलकं कृत्वा राजादीनां वशीकरं ।अप्_314.009अब्।
गर्धभस्य रजो गृह्य कुसुमं सूतकस्य च

314.010

नारीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् ।अप्_314.010अब्।
गोखुरञ्च तथा शृङ्गमश्वस्य च खुरं तथा

314.011

शिरः सर्पस्य संक्षिप्तं हृहेषूच्चाटनं भवेत् ।अप्_314.011अब्।
:प् 153
करवीरशिफा पीता ससिद्धार्था च मरणे

314.012

व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् ।अप्_314.012अब्।
सरटं षट्पदञ्चापि तथा कर्कटवृश्चिकम्

314.013

चूर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश् च कुष्ठकृत् ।अप्_314.013अब्।
ओं नवरहाय सर्वशत्रून् मम साधय 2 मारय 2 ओं सों मं
वुं चुं ओं शं वां कें ओं स्वहा
अनेनार्कशतैर् अर्च्य श्मशाने तु निधापयेत्

314.014

भूर्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः ।अप्_314.014अब्।
ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी । ओं वेताली
कौमारी ओं काली वैष्णवी । ओं अघोरा वाराहि । ओं वेताली
इन्त्राणी उर्वशी । ओं जयानी यक्षिणी । नवमातरो हे मम
शत्रुं गृह्णत 2
भूर्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc