भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 313

313.001

ओं ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट् स्वाहा
:ए इत्य् आग्नेये महापुराणे नानामन्त्रा नाम
द्वादशाधिकत्रिशततमो ऽध्यायः ॥
:प् 149
% छप्तेर् {313}
:श् अथ त्रयोदशाधिकत्रिशततमो ऽध्यायः
त्वरिताज्ञानम्
अग्निर् उवाच
ओम् ह्रीं हूं खे छे क्षः स्त्रीं ह्रूं क्षे ह्रीं फट्
त्वरितायैनमः
त्वरितां पूजयेन्न्यस्य द्विभुजाञ्चाष्टवाहुकां ।अप्_313.001अब्।
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम्

313.002

पूर्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया ।अप्_313.002अब्।
हुंकारां खेचरीं चण्डां छेदनीं क्षेपणींस्त्रियाः

313.003

हुंकारां क्षेमकारीञ्च फट्कारीं मध्यतो यजेत् ।अप्_313.003अब्।
जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः

313.004

लिलैहीमैश् च सर्वाप्त्यै नामव्याहृतिभिस् तथा ।अप्_313.004अब्।
अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा

313.005

स्वाहा वासुकिराजाय शङ्खपालाय वौषट् ।अप्_313.005अब्।
तक्षकाय वषन्नित्यं महापद्माय वै नमः

313.006

स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः ।अप्_313.006अब्।
लिखेन्निग्रहचक्रन्तु एकाशीतिपदैर् नरः

313.007

वस्ते पटे तरौ भूर्जे शिलायां यष्टिकासु च ।अप्_313.007अब्।
मध्ये कोष्ठे साध्यनाम पूर्वादौ पट्टिकासु च

313.008

ओं ह्रीं क्षूं छन्द छन्द चतुरः कण्ठकान्
कालरात्रिकां
ऐशादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।अप्_313.008अब्।
कालीनारवमाली कालीनामाक्षमालिनी

313.009

:प् 150
मामोदेतत्तदोमोमा रक्षत स्वस्व भक्षवा ।अप्_313.009अब्।
यमपाटटयामय मटमो टट मोटमा

313.010

वामो भूरिविभूमेया टट रीश्व श्वरी टट ।अप्_313.010अब्।
यमराजाद्वाह्यतो वं तं तोयं मारणात्मकं

313.011

कज्जलं निम्बनिर्यासमज्जासृग्विषसंयुतम् ।अप्_313.011अब्।
काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे

313.012

निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् ।अप्_313.012अब्।
विभीतद्रुमशास्वाधो यन्त्रं सर्वारिमर्दनम्

313.013

लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रे ऽथ भूर्जके ।अप्_313.013अब्।
लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा

313.014

भुवि भित्तौ पूर्वदले(1) नाम मध्यमकोष्ठके ।अप्_313.014अब्।
खण्डे तु वारिमध्यस्थं ओं हंसो वापि पट्टिशम्

313.015

लक्ष्मीश्लोकं शिवादौ च राक्षसादिक्रमाल्लिखेत् ।अप्_313.015अब्।
श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा

313.016

माया लीला लाली यामा याज्ञे ज्ञेया नौसा माया ।अप्_313.016अब्।
यत्र ज्ञेया वहिः शीघ्रा दिक्षुरं कलसं वहिः

313.017

पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृतिं ।अप्_313.017अब्।
शान्तीनां परमा सान्तिः सौभाग्यादिप्रदायकम्

313.018

रुद्रे रुद्रसमाः कार्याः कोष्ठकास्तत्र ता लिखेत् ।अप्_313.018अब्।
ओमाद्याह्रूंफडन्ता च आदिवर्णमथानुतः

313.019

विद्यावर्णक्रमेनेव संज्ञाञ्च वषडन्तिकां ।अप्_313.019अब्।
:न्
1 पूर्वपदे इति ञ..
:प् 151
अधस्थात् प्रत्यङ्गिरैषा सर्वकामार्थसाधिका

313.020

एकाशीतिपदे सर्वामादिवर्णक्रमेण तु ।अप्_313.020अब्।
आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै

313.021

एषा प्रत्यङ्गिरा चान्या सर्वकार्यादिसाधनी ।अप्_313.021अब्।
निग्रहानुग्रहञ्चक्रञ्चतुःषष्टिपदैर् लिखेत्

313.022

अमृती सा च विद्या च क्रीं सः हूं नामाथ मध्यतः ।अप्_313.022अब्।
फट्काराद्यां पत्रगतां त्रिह्रींकारेण वेष्टयेत्

313.023

कुम्भववद्धारिता सर्वशत्रुहृत् सर्वदायिका ।अप्_313.023अब्।
विषन्नश्येत् कर्णजपादक्षराद्यैश् च दण्डकैः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc