अग्नि पुराण · अध्याय 312
:ए इत्य् आग्नेये महापुराणे त्वरिताविद्या नामैकादशाधिकत्रिशततमो
ऽध्यायः
% छप्तेर् {312}
:श् अथ द्वादशाधिकत्रिशततमो ऽध्यायः
नानामन्त्राः
अग्निर् उवाच
ओं विनायकार्चनं वक्ष्ये यजेदाधारशक्तिकम् ।अप्_312.001अब्।
धर्माद्यष्टककन्दञ्च नालं पद्मञ्च कर्णिकाम्
:न्
1 तारहेम्ना चेति ख..
:प् 146
केशरं त्रिगुनं पद्मं तीव्रञ्च ज्वलिनीं यजेत् ।अप्_312.002अब्।
नन्दाञ्च सुयशाञ्चोग्रां तेजोवतीं विन्ध्यवासिनीं(1)
गणमूर्तिं गणपत्तिं हृदयं स्याद्गणं जयः ।अप्_312.003अब्।
एकदन्तोत्कटशिरःशिखायाचलकर्णिने
गजवक्त्राय कवचं हूं फडन्तं तथाष्टकं ।अप्_312.004अब्।
महोदरो दण्डहस्तः पूर्वादौ मध्यतो यजेत्
जयो गणाधिपो गणनायको ऽथ गणेश्वरः ।अप्_312.005अब्।
वक्रतुण्ड एकदन्तोत्कटलम्बोदरो गज
वक्त्रो विकटाननो ऽथ हूं पूर्वो विघ्ननाशनः ।अप्_312.006अब्।
धूम्रवर्णो महेन्द्राद्यो वाह्ये विघ्नेशपूजनम्
त्रिपुरापूजनं(2) वक्ष्ये असिताङ्गो रुरुस् तथा ।अप्_312.007अब्।
चण्डः क्रोधस्तथोन्मत्तः कपाली भीषणः क्रमात्
संहारो भैरवो ब्राह्मीर्मुख्या ह्रस्वास्तु भैरबाः ।अप्_312.008अब्।
ब्रह्माणीषण्मुखा दीर्घा अग्न्यादौ वटुकाः क्रमात्
समयपुत्रो वटुको योगिनीपुत्रकस् तथा ।अप्_312.009अब्।
सिद्धपुत्रश् च वटुकः कुलपुत्रश् चतुर्थकः
हेतुकः क्षेत्रपालश् च त्रिपुरान्तो द्वितीयकः ।अप्_312.010अब्।
अग्निवेतालो ऽग्निजिह्वः कराली काललोचनः
एकपादश् च भीमाक्ष ऐं क्षें प्रेतस्तयासनं ।अप्_312.011अब्।
ऐं ह्रीं द्वौश् च त्रिपुरा पद्मासनसमास्थिता
विभ्रत्यभयपुस्तञ्च वामे वरदमालिकाम् ।अप्_312.012अब्।
:न्
1 विवासिनीमिति ख..
2 त्रिपुरायजनमिति ख.. , छ.. , ज.. , ञ.. , ट.. च
:प् 147
मूलेन हृदयादि स्याज्जालपूर्णञ्च कामकम्
गोमध्ये नाम संलिख्य चाष्टपत्रे च मध्यतः ।अप्_312.013अब्।
श्मशानादिपटे श्मशानाङ्गारेण विलेखयेत्
चिताङ्गारपिष्टकेन मूर्तिं ध्यात्वा तु तस्य च ।अप्_312.014अब्।
क्षिप्त्वोदरे नीलसूत्रैर् वेष्ट्य चोच्चाठनं भवेत्
ओं नमो भगवति ज्वालामानिनि गृध्रगणपरिवृते स्वाहा
युद्धेगच्छन् जपन्मन्त्रं पुमान् साक्षाज्जयी भवेत् ।अप्_312.015अब्।
ओं श्रीं ह्रीं क्लीं श्रियै नमः
उत्तरादौ च घृणिनी सूर्या पुज्या चतुर्दले
आदित्या प्रभावती च हेमाद्रिमधुराश्रयः ।अप्_312.016अब्।
ओं ह्रीं गौर्यै नमः
गौरीमन्त्रः सर्वकरः होमाद्ध्यानाज्जपार्चनात्
रक्ता चतुर्भुजा पाशवरदा दक्षिणे करे ।अप्_312.017अब्।
अङ्कुशाभययुक्तान्तां प्रार्थ्य सिद्धात्मना पुमान्
जीवेद्वर्षशतं धीमान्न चौरारिभयं भवेत् ।अप्_312.018अब्।
क्रुद्धः प्रसादी भवति युधि मन्त्राम्बुपानतः
अञ्जनं तिलकं वश्ये जिह्वाग्रे कविता भवेत् ।अप्_312.019अब्।
तज्जपान्मैथुनं वश्ये तज्जपाद्योनिवीक्षणम्
स्पर्शाद्वशी तिलहोमात्सर्वञ्चैव तु सिध्यति ।अप्_312.020अब्।
सप्ताभिमन्त्रितञ्चान्नं भुञ्जंस्तस्य श्रियः सदा
अर्धनारीशरूपो ऽयं लक्ष्म्यादिवैष्णवादिकः ।अप्_312.021अब्।
अनङ्गरूपा शक्तिश् च द्वितीया मदनातुरा
पवनवेगा भुवनपाला वै सव्वसिद्धिदा ।अप्_312.022अब्।
:प् 148
अनङ्गमदनानङ्गमेखलान्ताञ्चपेच्छ्रिये
पद्ममध्यदलेषु ह्रीं स्वरान् कादींस्तितः स्त्रियाः ।अप्_312.023अब्।
षट्कोणे वा घटे वाथ लिखित्वा स्याद्वशीकरं
ओं ह्रीं छं नित्यक्लिन्ने मदद्रवे ओं ओं
मूलमन्त्रः षडङ्गओयं रक्तवर्णे त्रिकोणके ।अप्_312.024अब्।
द्रवणी ह्लादकारिणी क्षोभिणी गुरुशक्तिका
ईशानादौ च मध्ये तां नित्यां पाशाङ्कुशौ तथा ।अप्_312.025अब्।
कपालकल्पकतरुं वीणा रक्ता च तद्वती
नित्याभया मङ्गला च नववीरा च मङ्गला ।अप्_312.026अब्।
दुर्भगा मनोन्मनी पूज्या द्रावा पूर्वादितः स्थिता
ओं ह्रीं अनङ्गाय नमः ओं ह्रीं ह्रीं स्मराय
नमः
मन्मथाय च माराय कामायैवञ्च पञ्चधा ।अप्_312.027अब्।
कामाः पाशाङ्कुशौ चापवाणाः ध्येयाश् च विभ्रतः
रतिश् च विरतिः प्रीतिर्विप्रीतिश् च मतिर्धृतिः ।अप्_312.028अब्।
विधृतिः पुष्टिरेभिश् च क्रमात् कामादिकैर् युताः ।अप्_312.028च्द्।
ओं छं नित्यक्लिन्ने मदद्रवे ओं ओं । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ
ओ औ अं अः । क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त
थ द ध न प फ ब भ म य र ल व श ष स ह क्ष । ओं छं
नित्यक्लिन्ने मदद्रवे स्वाहा
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिषु
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0