अग्नि पुराण · अध्याय 311
:ए इत्य् आग्नेये महापुराणे त्वरितामूलमन्त्रो नाम
दशाधिकत्रिशततमो ऽध्यायः
% छप्तेर् {311}
:श् अथैकादशाधिकत्रिशततमो ऽध्यायः
त्वरिताविद्या
अग्निर् उवाच
विद्याप्रस्तावमाख्यास्ये धर्मकामादिसिद्धिदम् ।अप्_311.001अब्।
नवकोष्ठविभागेन विद्याभेदञ्च विन्दति
अनुलोमविलोमेन समस्तव्यस्तयोगतः ।अप्_311.002अब्।
कर्णाविकर्णयोगेन अत ऊर्ध्वं विभागशः
त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः ।अप्_311.003अब्।
जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून्
शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्लभाः ।अप्_311.004अब्।
गुरुः स्यात् प्रथमो वर्णः पूर्वेद्युर्न च वर्ण्यते
प्रस्तावे तत्र चैकार्णा द्व्यर्णास्त्र्यर्णादयो ऽभवन् ।अप्_311.005अब्।
तिर्यगूर्ध्वगता रेखाश् चतुरश् चतुरो भजेत्
नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् ।अप्_311.006अब्।
प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः
प्रस्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति ।अप्_311.007अब्।
करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः
:प् 144
त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् ।अप्_311.008अब्।
कपाले तु समालिख्य शिवतत्त्वं समन्ततः
श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् ।अप्_311.009अब्।
तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम्
तापयेत्खादिराङ्गारैर् भूर्जमाक्रम्य पादयोः ।अप्_311.010अब्।
सप्ताहादानयेत् सर्वं त्रेलोक्यं सचराचरम्
वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् ।अप्_311.011अब्।
मध्ये गर्भगतं नाम सदाशिवविदर्भितम्
कुड्ये(1) फलकके वाथ शिलापट्टे हरिद्रया ।अप्_311.012अब्।
मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते
विषरक्तेन संलिख्य श्मशाने कर्परे बुधः ।अप्_311.013अब्।
षट्कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम्
मारयेदचिरादेष श्मशाने निहतं रिपुं ।अप्_311.014अब्।
छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं
चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् ।अप्_311.015अब्।
तार्क्ष्येणैव तु वीजेन खड्गमध्ये तु लेखयेत्
विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् ।अप्_311.016अब्।
सप्ताहात्साधयेद्देशं ताडयेत् प्रेतभस्मना
भेदने छेदने चैव मारणेषु शिवो भवेत् ।अप्_311.017अब्।
तारकं नेत्रमुद्दिष्टं शान्तिपुष्टौ नियोजयेत्
दहनादिप्रयोगोयं शाकिनीञ्चैव कर्पयेत् ।अप्_311.018अब्।
मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः(2)
:न्
1 कुण्ड इति क..
2 वज्रतुण्दसमन्वित इति ट..
:प् 145
कुष्टाद्या व्याधयो ये तु नाशयेत्तान्न संशयः ।अप्_311.019अब्।
मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत्
रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः ।अप्_311.020अब्।
वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम्
सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे ।अप्_311.021अब्।
पूर्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात्
भूर्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् ।अप्_311.022अब्।
क्रमस्थैर् मन्त्रवीजैस्तु रक्षां देहेषु कारयेत्
वेष्टिता भावहेम्ना च(1) रक्षेयं मृत्युनाशिनी ।अप्_311.023अब्।
विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता
द्यूते रेणे च जयदा शक्रसैन्ये न संशयः ।अप्_311.024अब्।
बन्ध्यानां पुत्रदा ह्य् एषा चिन्तामणिरिवापरा
साधयेत् परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् ।अप्_311.025अब्।
फट् स्त्रीं क्षें हूं लक्षजप्याद्यक्षादिर्वशगो भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0