अग्नि पुराण · अध्याय 310
:ए इत्य् आग्नेये महापुराणे त्वरितामन्त्रादिर्नाम नवाधिकत्रिशततमो
ऽध्यायः
% छप्तेर् {310}
:श् अथ दशाधिकत्रिशततमो ऽध्यायः
त्वरितामूलमन्त्रादिः
अग्निर् उवाच
दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुले ऽब्जके ।अप्_310.001अब्।
हे 2 हुति वज्रदन्त पुरु 2 लुलु 2 गर्ज 2 इह सिंहासनाय नमः
तिर्यगूर्ध्वगता रेखाश् चत्वारश् चत्वारश् चतुरो भवेत्
नवभागविभागेन कोष्ठकान् कारयेद्बुधः ।अप्_310.002अब्।
ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत्
वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् ।अप्_310.003अब्।
वाह्यकोष्ठस्य वाह्ये तु मध्ये यावत् समानयेत्
वज्रस्य मध्यमं शृङ्गं वाह्यरेखा द्विधार्धतः ।अप्_310.004अब्।
वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः
:प् 140
मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् ।अप्_310.005अब्।
कृष्णेन रजसा लिख्य कुलिशासिशितोर्धता
वाह्यतश् चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् ।अप्_310.006अब्।
द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान्
पद्मनाम भवेद्वामवीथी चैव समा भवेत् ।अप्_310.007अब्।
गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः
जयेच्च परराष्ट्राणि क्षिप्रं राज्यमवाप्नुयात् ।अप्_310.008अब्।
मूर्तिं प्रणवसन्दीप्तां हूंकारेण नियोजयेत्
मूलविद्यां समुच्चार्य मरुद्व्योमगतां द्विज ।अप्_310.009अब्।
प्रथमेन पुनश् चैव कर्णिकायां प्रपूजयेत्
एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः ।अप्_310.010अब्।
दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैरृतम्(1)
मध्ये नेत्रं दिशास्त्रञ्च गुह्यकाङ्गे तु रक्षणम् ।अप्_310.011अब्।
हुतयः केशरस्थास्तु वामदक्षिणपार्श्वतः
पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर् मन्त्रैः प्रपूजयेत् ।अप्_310.012अब्।
लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले
वर्णान्तमग्निमारूटं षष्ठस्वरविभेदितं(2) ।अप्_310.013अब्।
पञ्चदशेन चाक्रान्तं स्वैः स्वैर् नामभि योजयेत्(3)
शीघ्रं(4) सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये(5) ।अप्_310.014अब्।
:न्
1 आग्नेयावन्नैरृतमिति ञ..
2 ज्येष्ठस्वरविभूषितमिति ख.. , छ.. च
3 नामभिर्योजयेदित्ययं पाठः समीचीनो भवितुमर्हति
4 नीलेति ञ..
5 श्रियमिति ञ..
:प् 141
अष्टाभिर् वेष्टयेत् कुम्मैर्(?) मन्त्राष्टशतमन्त्रितैः
मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् ।अप्_310.015अब्।
तोमं कुर्यादग्निकुण्डे वह्निमन्त्रेण चालयेत्
निक्षिपेद् हृदयेनाग्निं शक्तिं मध्ये ऽग्निगां स्मरेत् ।अप्_310.016अब्।
गर्भाधानं पुंसवनं जातकर्म च होमयेत्
हृदयेन शतं ह्य् एकं गुह्येकं गुह्याङ्गे जनयेच्छिखिम् ।अप्_310.017अब्।
पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलितो भवेत्
होमयेम्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः ।अप्_310.018अब्।
निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत्
अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् ।अप्_310.019अब्।
विद्याङ्गैश् चैव सन्नद्धं विद्याङ्गेषु नियोजयेत्
पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् ।अप्_310.020अब्।
यवैर् द्वान्यैस्तिलैर् आज्यैर् मूलविद्याशतं हुनेत्
स्थावरत्वं पुरा होमं सरीसृपमतः परं ।अप्_310.021अब्।
पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च
विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् ।अप्_310.022अब्।
एकया चैव ह्य् आह्त्या शिष्यः स्याद्दीक्षितो भवेत्
अधिकारो भवेदेवं शृणु मोक्षमतः परम् ।अप्_310.023अब्।
सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः
परे च होमयेत् स्वस्थो ऽकर्मकर्मशतान् दश ।अप्_310.024अब्।
पूर्णाहुत्या तु तद्योगी धर्माधर्मैर् न लिप्यते
मोक्षं याति परंस्थानं यद्गत्वा न निवर्तते ।अप्_310.025अब्।
यथा जले जलं क्षिप्तं जलं देही शिरस् तथा
:प् 142
कुम्भैः कुर्याच्चाभिषेकं जयराज्यादिसर्वभाक् ।अप्_310.026अब्।
कुमारी ब्राह्मणी पूज्या गुर्वादेर्दक्षिणां ददेत्
यजेत् सहस्रमेकन्तु पूजां कृत्वा दिने दिने ।अप्_310.027अब्।
तिलाज्यपुरहोमेन(1) देवी श्रीः कामदा भवेत्
ददाति विपुलान् भोगान् यदन्यच्च समीहते ।अप्_310.028अब्।
जप्त्वा ह्य् अक्षरलक्षन्तु निधानाधिपतिर्भवेत्
द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी ।अप्_310.029अब्।
चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत्
षड्गुणेन महासिद्धिर् लक्षेणैकेन पापहा ।अप्_310.030अब्।
दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात्
पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् ।अप्_310.031अब्।
शतं सहस्रमयुतं जपे होमे प्रकीर्तितम्
एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् ।अप्_310.032अब्।
महिषाजमेषमांसेन नरजेन पुरेण(2) वा
तिलैर् यवैस् तथा लाजैर् व्रीहिगोधूमकाम्रकैः ।अप्_310.033अब्।
श्रीफलैर् आज्यसंयुक्तैर् होमयित्वा व्रतञ्चरेत्
अर्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् ।अप्_310.034अब्।
एकवासा विचित्रेण रक्तपीतासितेन वा
नीलेन वाथ वस्त्रेण देवीं तैर् एव चार्चयेत् ।अप्_310.035अब्।
व्रजेद्दक्षिणदिग्भागं द्वारे दद्याद्बलिं बुधः
:न्
1 तिलाज्यप्लवहोमेनेति ख.. , छ.. च
2 प्लवेनेति ख.. , छ.. च
:प् 143
दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके ।अप्_310.036अब्।
एवञ्च सर्वकामाप्तिर्भुङ्क्ते सर्वां महीं नृपः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0