अग्नि पुराण · अध्याय 309
:ए इत्य् आग्नेये महापुराणे त्वरितापूजा नामाष्टाधिकत्रिशततमो
ऽध्यायः
% छप्तेर् {309}
:श् अथ नवाधिकत्रिशततमो ऽध्यायः
त्वरितामन्त्रादिः
अग्निर् उवाच
अपरां त्वरिताविद्यां वक्ष्ये ऽहं भुक्तिमुक्तिदां ।अप्_309.001अब्।
पुरे वज्राकुले(1) देवीं रजोभिर्लिखिते यजेत्
पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां ।अप्_309.002अब्।
द्वारशोभोपशोभाञ्च लिखेच्छ्रीघ्रं स्मरेन्नरः
अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता ।अप्_309.003अब्।
दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता
नागभूषां वज्रकुण्डे खड्गं चक्रं गदां करमात् ।अप्_309.004अब्।
शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः
धनुः पाशं शरं घण्टां तर्जनींशङ्खमङ्कुशम् ।अप्_309.005अब्।
अभयञ्च तथा वर्जं वामपार्श्वे धृतायुधम्
पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया ।अप्_309.006अब्।
दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिसिद्धिभाक्
:न्
1 वज्रार्गले इति ञ..
:प् 136
तलेतिसप्तपातालाः कालाग्निभुवनान्तकाः ।अप्_309.007अब्।
ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम्
ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः ।अप्_309.008अब्।
प्रस्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि
तालुर्वर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः ।अप्_309.009अब्।
चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः
षष्ठो ऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः ।अप्_309.010अब्।
ऊष्माणः स्याच्छ्वर्गस्तु उद्धरेच्च मनुं ततः
षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् ।अप्_309.011अब्।
तालुवर्गद्वितीयन्तु स्वरैकादशयोजितम्
जिह्वातालुसमायोगः प्रथमं केवलं भवेत् ।अप्_309.012अब्।
तदेव च द्वितीयन्तु अधस्ताद्विनियोजयेत्
एकादशस्वरैर् युक्तं प्रथमं तालुवर्गतः ।अप्_309.013अब्।
ऊष्माणस्य(1) द्वितीयन्तु अधस्ताद् दृश्य योजयेत्
षोडशस्वरसंयुक्तमूष्माणस्य द्वितीयकम् ।अप्_309.014अब्।
जिह्वादन्तसमायोगे प्रथमं योजयेदधः
मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु ।अप्_309.015अब्।
चतुर्थस्वरसम्भिन्नं तालुवर्गादिसंयुतम्
ऊष्मणश् च द्वितीयन्तु अधस्ताद्विनियोजयेत् ।अप्_309.016अब्।
स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम्
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः ।अप्_309.017अब्।
द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः
:न्
1 ऊष्माणस्येत्ययं पाठो न साधुः
:प् 137
प्रथमं पञ्चमे योज्यं स्वरार्धेनोद्धृता इमे ।अप्_309.018अब्।
ओंकाराद्या नमोन्ताश् च जपेत् स्वाहाग्निकार्यके
ओं ह्रीं ह्रूं ह्रः हृदयं हां हृश्चेति शिरः ।
ह्रीं ज्वल ज्जलशिखा स्यात् कवचं हनुद्वयम् । ह्रीं श्रीं
क्षून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्तितम् क्षौं हः खौं
हूं फडस्त्राय गुह्याङ्गानि पुरा न्यसेत्
त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि शृणुष्व मे ।अप्_309.019अब्।
आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् ।अप्_309.020अब्।
तारकन्तु भवेन्नेत्रं नवार्धाक्षरलक्षणं
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् ।अप्_309.021अब्।
ख ख हूं दशवीजा स्याद्वज्रतुण्डेन्द्रद्रूतिका
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश ।अप्_309.022अब्।
वर्चे शरविभीषणि खखेति च शवर्यपि
छे छेदनि करालिनि खखेति च कराल्यपि ।अप्_309.023अब्।
वक्षःश्रवद्रवप्लवनी ख ख(1) दूतीप्लवं ख्यपि
स्त्रीबालकारे धुननि शास्त्री वसनवेगिका ।अप्_309.024अब्।
क्षे पक्षे कपिले हस हस कपिला नाम दूतिका
ह्रूं तेजोवति रौद्री च मातङ्गरौद्रिदूतिका ।अप्_309.025अब्।
पुटे पुटे ख ख खड्गे फट् ब्रह्मकदूतिका
वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् ।अप्_309.026अब्।
हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः
पादादरभ्य मूर्दान्तं शिर आरभ्य पादयोः ।अप्_309.027अब्।
:न्
1 वक्षःश्रवद्रवप्लवनीथथेति ख.. , छ.. च
:प् 138
अङ्घ्रिजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः
वज्रमण्डलबूर्धे च अघोर्धे चादिवीजतः ।अप्_309.028अब्।
सोमरूपं ततो गावं धारामृतसुवर्षिणम्
विशन्तं ब्रह्मरन्ध्रेण साधकस्तु विचिन्तयेत् ।अप्_309.029अब्।
मूर्धास्यकण्ठहृन्नाभौ गुह्योरुजानुपादयोः
आदिवीजं न्यसेन्मन्त्री तर्जन्यादि पुनः पुनः ।अप्_309.030अब्।
ऊर्धं सोममधः पद्मं शरीरं वीजविग्रहं
यो जानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वरा ।अप्_309.031अब्।
यजेज्जपेत्तां विन्यस्य ध्यायेद्देवीं शताष्टकम्
मुद्रा वक्ष्ये प्रणीताद्याः प्रणीताः पञ्चधास्मृताः ।अप्_309.032अब्।
ग्रथितौ तु करौ कृत्वा मध्ये ऽङ्गुष्ठौ निपातयेत्
तर्जनीं मूर्ध्निसंलग्नां विन्यसेत्तां शिरोपरि ।अप्_309.033अब्।
प्रणीतेयं समाख्याता हृद्देशे तां समानयेत्
ऊर्धन्तु कन्यसामध्ये सवीजान्तां विदुर्द्विजाः ।अप्_309.034अब्।
नियोज्य तर्जनीमध्ये ऽनेकलग्नां परस्पराम्
ज्येष्टाग्रं निक्षिपेन्मध्ये भेदनी सा प्रकीर्तिता ।अप्_309.035अब्।
नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठावुत्क्षिपेत्ततः
कराली तु महामुद्रा हृदये योज्य मन्त्रिणः ।अप्_309.036अब्।
पुनस्तु पूर्ववद् बद्धलग्नां ज्येष्ठां समुत्क्षिपेत्
वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् ।अप्_309.037अब्।
उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत्
त्रीणि त्रीणि प्रसार्येति(1) वज्रमुद्रा प्रकीर्तिता ।अप्_309.038अब्।
:न्
1 प्रसार्या चेति ट..
:प् 139
दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता
अङ्गुष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोर्ध्वतो भवेत् ।अप्_309.039अब्।
एका तु मध्यमोर्ध्वा तु शक्तिरेव विधीयते
शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया ।अप्_309.040अब्।
शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः
मोहणी मोक्षणी चैव ज्वालिनी चामृताभया ।अप्_309.041अब्।
प्रणीताः पञ्चमुद्रास्तु पूजाहोमे च योजयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0