अग्नि पुराण · अध्याय 308
:ए इत्य् आग्नेये महापुराणे त्रैलोक्यमोहनीलक्ष्म्यादिपूजा नाम
सप्ताधिकत्रिशततमो ऽध्यायः
:प् 133
% छप्तेर् {308}
:श् अथाष्टाधिकत्रिशततमो ऽध्यायः
त्वरितापूजा
अग्निर् उवाच
त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् ।अप्_308.001अब्।
ओं आधारशक्त्यै नमः । ओं ह्रीं पुरु 2 महासिंहाय
नमः ।ओं पद्माय नमः । ओं ह्रीं ह्रूं खेचछेक्षः ।
स्त्रीं ओं ह्रूं क्षैं ह्रूं फट् त्वरितायै नमः । खे च
हृदयाय नमः ।चछे शिरसे नमः ।छेक्षः शिखायै
नमः । क्षस्त्री कवचाय नमः । स्त्रीं ह्रूं नेत्राय नमः
। ह्रूं खे अस्त्राय फट् नमः । ओं त्वरिताविद्यां विद्महे
तूर्णविद्याञ्च धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै
नमः । ह्रूं कारायै नमः । ओं खेच हृदयाय नमः ।
खेचर्यै नमः । ओं चण्डायै नमः । छेदन्यै नमः
क्षेपण्यै नमः ।स्त्रियै ह्रूं कार्यै नमः । क्षेमङ्कर्यै
जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वषट्
तोतला त्वरिता तूर्णेत्येत्येवं विद्येयमीरिता
शिरोभ्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके ।अप्_308.002अब्।
उर्वोश् च जानुजङ्घोरुद्वये चरणयोः क्रमात्
न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् ।अप्_308.003अब्।
पार्वती शवरी चेशा वरदाभयहस्तिका
मयूरबलया पिच्छमौलिः किसलयांशुका ।अप्_308.004अब्।
सिंहासनस्था मायूरवर्हच्छत्रसमन्विता
त्रिनेत्रा श्यामला देवी वनमालाविभूषणा ।अप्_308.005अब्।
:प् 134
विप्राहिकण्राभरणा चत्रकेयूरभूषणा
वैश्यनागकटीबन्धा वृषलाहिकृतनूपुरा ।अप्_308.006अब्।
एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत्
ईशः किरातरूपो ऽभूत् पुरा गौरी च तादृशी ।अप्_308.007अब्।
जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत्
अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् ।अप्_308.008अब्।
अङ्गगायत्री प्रणीता हूङ्काराद्या दलाग्रके
फट्कारी चाग्रतो देव्याः श्रीवीजेनार्चयेदिमाः ।अप्_308.009अब्।
लोकेशायुधवर्णास्ताः फट्कारी तु धनुर्धरा
जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके ।अप्_308.010अब्।
किङ्करा वर्वरी मुण्डी लगुडी च तयोर्वहिः
इष्ट्वैवं सिद्धयेद्द्रव्यैः कुण्डे योन्याकृतौ हुनेत् ।अप्_308.011अब्।
हेमलाभो ऽर्जुनैर् धान्यैर् गोधूमैः पुष्टिसम्पदः
यवैर् धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् ।अप्_308.012अब्।
अक्षैर् उन्मत्तता शत्रोः शाल्मलीभिश् च मारणम्
जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैर् अपि ।अप्_308.013अब्।
रक्तात्पलैर् महापुष्टिः कुन्दपुष्पैर् महोदयः
मल्लिकाभिः पुरक्षोभः कुमुदैर् जनवर् लभः ।अप्_308.014अब्।
अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना
आम्रैर् आयुस्तिलैर् लक्ष्मीर्बिल्वैः श्रीश् चम्पकैर् धनम् ।अप्_308.015अब्।
इष्टं मधुकपुष्पैश् च बिल्वैः सर्वज्णतां लभेत्
त्रिलक्षजप्यात्सर्वाप्तिर्होमाद्ध्यानात्तथेज्यया ।अप्_308.016अब्।
मण्डले ऽभ्यर्च्य गायत्र्या आहुतीः पञ्चविंशतिम्
:प् 135
दद्याच्छतत्रयं मूलात् पल्लवैर् दीक्षितो भवेत् ।अप्_308.017अब्।
पञ्चगव्यं पुरा पीत्वा चरुकं प्राशयेत्सदा
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0