अग्नि पुराण · अध्याय 307
:ए इत्य् आग्नेये महापुराणे त्रैलोक्यमोहनमन्त्रो नाम
षष्ठाधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {307}
:श् अथ सप्ताधिकत्रिशततमो ऽध्यायः
त्रैलोक्यमोहनीलक्ष्म्यादिपूजा
अग्निर् उवाच
वक्षः सवह्निर्यामाक्षौ दण्डीः श्रीः सर्वसिद्धिदा ।अप्_307.001अब्।
महाश्रिये महासिद्धे महाविद्युत्प्रभे नमः
श्रिये देवि विजये नमः । गौरि महाबले बन्ध 2 नमः । हूं
महाकाये पद्महस्ते हूं फट् श्रियै नमः । श्रियै फट् श्रियै
नमः । श्रियै फट् श्रीं नमः । श्रिये श्रीद नमः
स्वाहा स्वाहा श्रीफट् ॥
अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् ।अप्_307.002अब्।
त्रिलक्षमेकलक्षं वा जप्त्वाक्षाब्जैश् च भूतिदः
श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् ।अप्_307.003अब्।
आज्याक्तैस्तण्डुलैर् लक्षं जुहुयात् खादिरानले
राजा वश्यो भवेद्वृद्धिः श्रीश् च स्यादुत्तरोत्तरं ।अप्_307.004अब्।
सर्षपाम्भोभिषेकेण नश्यन्ते सकला ग्रहाः
बिल्वलक्षहुता लक्ष्मीर्वित्तवृद्धिश् च जायते ।अप्_307.005अब्।
शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ
:प् 131
बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् ।अप्_307.006अब्।
ऊर्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत्
उर्ध्वीकृतेन हस्तेन रक्तपङ्कजधारिणीं ।अप्_307.007अब्।
श्वेताङ्गीं दक्षिणे द्वारि चिन्तयेद्वनमालिनीम्
हरितां दोर्द्वयेनोर्धमुद्वहन्तीं सिताम्बुजम् ।अप्_307.008अब्।
ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे
शाङ्करीमुक्क्तरे द्वारि तन्मध्ये ऽष्टदलपङ्कजं ।अप्_307.009अब्।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः
ध्येयास्ते पद्मपत्रेषु शङ्खचक्रगदाधराः ।अप्_307.010अब्।
अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः
आग्नेयादिषु पत्रेषु गुग्गुलुश् च कुरुण्टकः ।अप्_307.011अब्।
दमकः सलिलश्चेति हस्तिनी रजतप्रभाः
हेमकुम्भधराश् चैते कर्णिकायां श्रियं स्मरेत् ।अप्_307.012अब्।
चतुर्भुजां सुवर्णाभां सपद्मोर्ध्वभुजद्वयां
दक्षिणाभयहस्ताभां वामहस्तवरप्रदां ।अप्_307.013अब्।
श्वेतगन्धांशुकामेकरौम्यमालास्त्रधारिणीं
ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् ।अप्_307.014अब्।
द्रोणाब्जपुष्पश्रीवृक्षपर्णं मूर्ध्नि न धारयेत्
लवणामलकं वर्ज्यं नागादित्यतिथौ क्रमात् ।अप्_307.015अब्।
पायसाशी जपेत् सूक्तं श्रियस्तेनाभिषेचयेत्
आवाहादिविसर्गान्तां मूर्ध्नि ध्यात्वार्चयेत् श्रियम् ।अप्_307.016अब्।
विल्वाज्याब्जपायसेन पृथक् योगः श्रिये भवेत्
विषं महिषकान्ताग्निरुद्रिज्योतिर्वकद्वयम् ।अप्_307.017अब्।
:प् 132
ओं ह्रीं महामहिषमर्दिनि ठ ठ मूलमन्त्रं
भहिषहिंसके नमः । महिषशत्रुं भ्रामय 2 हूं फट्
ठ ठ महिषं हेषय 2 हूं महिषं हन2 देवि हूं
महिषनिसूदनि फट्
दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम्
यजेद्यथोक्तं तां देवीं पीठञ्चैवाङ्गमध्यगम् ।अप्_307.018अब्।
ओं ह्रीं दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै
नमः । आर्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै
सुरूपायै ॥
पत्रस्थाः पूजयेदेता मूर्तीराद्यैः स्वरैः क्रमात्
चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय ।अप्_307.019अब्।
अष्टम्याद्यैर् इमां दुर्गां लोकेशान्तां यजेदिति ।अप्_307.019च्द्।
दुर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत्
समाध्येशानमन्त्रेण तिलहोमो वशीकरः ।अप्_307.020अब्।
जयः पद्मैस्तु दुर्वाभिः शान्तिः कामः पलाशजैः
पुष्टिः स्यात् काकपक्षेण मृतिद्वेषादिकं भवेत् ।अप्_307.021अब्।
ब्रह्मक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत्
ओं दुर्गे दुर्गे रक्षणि स्वाहा
रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता ।अप्_307.022अब्।
श्यामां त्रिलिचनां देवीं ध्यात्वात्मानं चतुर्भुजम्
शङ्खचक्राब्जशूलादित्रिशूलां रौद्ररूपिणीं ।अप्_307.023अब्।
युद्धादौ सञ्जयेदेतां यजेत् खड्गादिके जये
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0