अग्नि पुराण · अध्याय 306
:ए इत्य् आग्नेये महापुराणे नारसिंहादिमन्त्रा नाम
पञ्चाधिकत्रिशततमो ऽध्यायः
% छप्तेर् {306}
:श् अथ षष्ठाधिकत्रिशततमो ऽध्यायः
त्रैलोक्यमोहनमन्त्राः
अग्निर् उवाच
वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलिक्यमोहनम् ।अप्_306.001अब्।
ओं श्रीं ह्रीं ह्रूं ओं नमः पुरुशोत्तमः
पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्क्षोभण
सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर
सुरमनुजसुन्दरोजनमनांसि तापय 2 दोपय 2 शोडय 2 मारय 2
स्तम्भय 2 द्रावय 2 आकर्षय 2 परमसुभग सर्वसौमाग्यकर
कामप्रद अमुकं हन 2 चक्रेण गदया खड्गेण सर्व-[!!!]
:प् 127
वाणैर्भिद 2 पाशेन हट्ट 2 अङ्कुशेन ताड्य 2 तुरु 2
किन्तिष्ठसियावत्तावत् समीहितं मे सिद्धं भवति हूं फट्
नमः
ओं पुरुषोत्तम त्रिभुवनमदोन्मादकर हूं फट् हृदयाय
नमः कर्षय महाबल हूं फट् अस्त्राय त्रिभुवनेश्वर
सर्वजनमनांसि हन 2 दारय 2 मम वशमानय 2 हूं फट्
नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप
सर्वस्त्रीहृदयाकर्षण आगच्छ 2 नमः ॥
सङ्गाक्षिण्यायकेन न्यासं मूलवदीरितं
इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिषिच्य च ।अप्_306.002अब्।
कुण्डेग्नौ देविके वह्नौ कृत्वा शतं हुनेत्
पृथग्दधि घृतं क्षीरं चरुं साज्यं पयः शृतं ।अप्_306.003अब्।
द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान्
यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं ।अप्_306.004अब्।
हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं
सम्भोज्य विप्रानाचार्यं तोषयेत्सिध्यते मनुः ।अप्_306.005अब्।
स्नात्वा यथावदाचम्य वाग्यतो यागमन्दिरं
गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः ।अप्_306.006अब्।
रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम्
पञ्चबीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।अप्_306.007अब्।
अशेषं कल्मषं देहात् विश्लेषयदनुस्मरेत्
रंवीजं हृदयाब्जस्थं स्मृत्वा ज्वालाभिरादहेत् ।अप्_306.008अब्।
उर्ध्वाधस्तिर्यगाभिस्तु मूर्ध्नि संप्लावयेद्वपुः
ध्यात्वामृतैर् वहिश्चान्तःसुषुम्नामार्गगामिभिः ।अप्_306.009अब्।
एवं शुद्धवपुः प्राणानायम्य मनुना त्रिधा
:प् 128
विन्यसेन्न्यस्तहस्तान्तः शक्तिं मस्तकवक्त्रयोः ।अप्_306.010अब्।
गुह्ये गले दिक्षु हृदि कक्षौ देहे च सर्वतः
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् ।अप्_306.011अब्।
तारेण सम्परात्मानं स्मरेत्तं सर्वलक्षणं
त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः
प्रचोदयात्
आत्मार्चनात् क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं ।अप्_306.012अब्।
कृत्वात्मपूजां विधिना स्थण्डिले तं समर्चयेत्
कर्मादिकल्पिते पीठे पद्मस्थं गरुडोपरि ।अप्_306.013अब्।
मर्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं
मदाघूर्णितताम्राक्षमुदारं स्मरविह्वलिं ।अप्_306.014अब्।
दिव्यमाल्याम्वरलेपभूषितं सस्मिताननं
विष्णुं नानाविधानेकपरिवारपरिच्छदम् ।अप्_306.015अब्।
लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं
पञ्चवाणधरं प्राप्तकामैक्षं द्विचतुर्भुजम् ।अप्_306.016अब्।
देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत्
चक्रं शङ्खं धनुः खड्गं गदांमुषलमङ्कुशं ।अप्_306.017अब्।
पाशञ्च विभ्रतं चार्चेदावाहादिविसर्गतः
श्रियं वामोरुजङ्घास्थां श्लिष्यन्तीं पाणिना पतिं ।अप्_306.018अब्।
साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां
मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् ।अप्_306.019अब्।
ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद 2 छिन्द 2
विदारय 2 परममन्त्रान् ग्रस 2 भक्षय 2 भूतानि चाशप 2
हूं
:प् 129
फट् ओं जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द 2 खड्गाय
नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय
विद्महे चतुर्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्तक श्वसन
पोथय 2 हूं फट् स्वाहा । पाश बन्ध 2 आकर्षय 2 हूं फट्
। अङ्कुशेन कट्ट हूं फट्
क्रमाद्भुजेषु मन्त्रैः स्वैर् एभिरस्त्राणि पूजयेत्
ओं पक्षिराजाय ह्रूं फट्
तार्क्ष्यं यजेत् कर्णिकायामङ्गदेवान् यथाविधि ।अप्_306.020अब्।
शाक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः
शक्तयो ऽन्ते प्रयोज्यादौ सुरेशाद्याश् च दण्डिना ।अप्_306.021अब्।
पीते लक्ष्मीसरस्वत्यौ रतिप्रीतिजयाः सिताः
कीर्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते ।अप्_306.022अब्।
लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये
ध्यायेन्मन्त्रं जपित्वैनं जुहुयात्त्वभिशेचयेत् ।अप्_306.023अब्।
ओं श्रीं क्रीं ह्रीं हूं त्रैलोक्यमोहनाय विष्णवे
नमः
एतत्पूजादिना सर्वान् कामानाप्नोति पूर्ववत्
तोयैः सम्मोहनी पुष्पैर् नित्यन्तेन च तर्पयेत् ।अप्_306.024अब्।
ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम्
जप्त्वा त्रिलक्षं हुत्वा च लक्षं बिल्वैश् च साज्यकैः ।अप्_306.025अब्।
तण्डुलैः फलगन्धाद्यैः(1) दूर्वाभिस्त्वायुराप्नुयात्
तयाभिषेकहोमादिक्रियातुष्टो ह्य् अभीष्टदः ।अप्_306.026अब्।
:न्
1 फलपुष्पाद्यैर् इति ट..
:प् 130
ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतिद्वं मे
देहि हृदयाय स्वाह
पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0