भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 305

305.001

:ए इत्य् आग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम
चतुरधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {305}
:श् अथ पञ्चाधिकत्रिशततमो ऽध्यायः
नारसिंहादिमन्त्राः
अग्निर् उवाच
स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे ।अप्_305.001अब्।
व्याधिश्चेति स्मृतं क्षुत्रं तन्मोक्षो वक्ष्यते शृणु

305.002

ओं नमो भगवते उन्मत्तरुद्राय भ्रम 2 भ्रामय 2 अमुकं वित्रासय
उद्भ्रामय 2 रौद्रेण रूपेण हूं फठ् ठ 2
श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् ।अप्_305.002अब्।
चिताग्नौ धूर्तसमिदुभिर्भ्राम्यते सततं रिपुः

305.003

हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः ।अप्_305.003अब्।
जप्त्वा विध्येच्च तत्कण्ठे हृदि वा मियते रिपुः

305.004

खरबालचिताभस्म ब्रह्मदण्डी च मर्कटी ।अप्_305.004अब्।
गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत क्षिपेत्

305.005

भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश् च वर्म फट् ।अप्_305.005अब्।
एवं सहस्रारे हूं फट् आचक्राय स्वाहा हृदयं विचक्राय
शिवः
शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम्

305.006

:प् 125
सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् ।अप्_305.006अब्।
शार्ङ्गं सुदर्शनं क्षुद्रग्रहहृत् सर्वसाधनम्

305.007

मूर्धाक्षिमुखहृद्गुह्यपादे ह्य् अस्याक्षरान्न्यसेत् ।अप्_305.007अब्।
चक्राब्जासनमग्न्याभं दंष्ट्रणञ्च चतुर्भुजम्

305.008

शङ्खचक्रगदापद्मशलाकाङ्कुशपाणिनम् ।अप्_305.008अब्।
चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं

305.009

नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः ।अप्_305.009अब्।
पीतञ्चक्रं गदा रक्ताः स्वराः श्याममवान्तरं

305.010

नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी ।अप्_305.010अब्।
मध्येतरेमरे वर्णानेवं चक्रद्वयं(1) लिखेत्

305.011

आदावानीय कुम्भोदं गोचरे सन्निधाय च ।अप्_305.011अब्।
दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत् क्रमात्

305.012

आज्यापामार्गसमिधो ह्य् अक्षतं तिलसर्षपौ ।अप्_305.012अब्।
पायसं गव्यमाज्यञ्च सहस्राष्टकसंख्यया

305.013

हुतशेषं क्षिप्तेत् कुम्भे प्रतिद्रव्यं विधानवित् ।अप्_305.013अब्।
प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत्

305.014

विष्णादि सर्वं तत्रैव न्यसेत् तत्रैव दक्षिणे ।अप्_305.014अब्।
नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु
शान्तये नमः
दद्यादनेन मन्त्रेण हुतशेषाम्भसा बलिं

305.015

फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः ।अप्_305.015अब्।
गव्यपूर्णे निवेश्यैव दिक्ष्वेवं होमयेद्द्विजैः

305.016

सदक्षिणमिदं होमद्वयं भूतादिनाशनम् ।अप्_305.016अब्।
:न्
1 वर्णद्वयमिति ख..
:प् 126
गव्याक्तपत्रलिखितैर् निष्पर्णैः क्षुद्रमुद्धृतम्

305.017

दूर्वाभिरायुषे पद्मैः श्रिये पुत्रा उडुग्बरैः ।अप्_305.017अब्।
गोसिद्ध्यै सर्पिषा गोष्ठे मेधायै सर्वशाखिना

305.018

ओं क्षौं नमो भगवते नारसिंहाय ज्वालामालिने
दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय
सर्वभूतविनाशाय सर्वज्वरविनाशाय दह 2 पच 2 रक्ष 2 हूं
फट्
मन्त्रोयं नारसिंहस्य मकलाघ्निवारणः ।अप्_305.018अब्।
जप्यादिना हरेत् क्षुद्रग्रहमारीविषामयान् ।अप्_305.018च्द्।
चूर्णमण्डूकवयसा जलाग्निस्तम्भकृद्भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc