भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 301

301.001

:ए इत्य् आग्नेये महापुराणे सूर्यार्चनं नाम त्रिशततमो ऽध्यायः
॥
% छप्तेर् {301}
:श् अथैकाधिकत्रिशततमो ऽध्यायः
नानामन्त्राः
अग्निर् उवाच
वाक्कर्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः ।अप्_301.001अब्।
हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती

301.002

:न्
1 धार्य चेति ख..
2 विद्युत्पातविधाविति घ.. , ज.. , ञ.. , ट.. च
:प् 114
अक्षाराशी वर्णलक्षं जपेत् समतिमान् भवेत् ।अप्_301.002अब्।
अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः

301.003

वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् ।अप्_301.003अब्।
नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत्

301.004

नृपादिर्भ्रष्टरज्यादीन्राज्यपुत्रादिमाप्नुयात् ।अप्_301.004अब्।
हृल्लेखा शक्तिदेवाख्या दोषाग्निर्दण्डिदण्डवान्

301.005

शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्दशीं ।अप्_301.005अब्।
चक्रपाशाङ्कुशधरां साभयां वरदायिकां

301.006

होमादिना च सौभाग्यं कवित्वं पुरवान् भवेत् ।अप्_301.006अब्।
ओं ह्रीं ओं नमः कामाय सर्वजनहिताय सर्वजनमोहनाय
प्रज्वलिताय सर्वजनहृदयं ममात्मगतं कुरु 2 ओं
एतज्जपादिना मन्त्रओ वशयेत् सकलं जगत्

301.007

ओं ह्रीं चामुण्डे अमुकन्दह 2 पच 2 मम वशमानय 2 ठ
2
वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्तितः ।अप्_301.007अब्।
फलत्रयकषायेण वराङ्गं क्षालयेद्वशे

301.008

अश्वगन्धायवैः स्त्री तु निशाकर्पूरकादिना ।अप्_301.008अब्।
पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः

301.009

वृहतीरसलेपश् च वशे स्यान्मरणान्तिकं ।अप्_301.009अब्।
कटीरमूलत्रिकटुक्षौद्रलेपस् तथा भवेत्

301.010

हिमं कपित्थकरभं मागधी मधुकं मधु ।अप्_301.010अब्।
तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत्

301.011

सशर्करयोनिलेपात् कदम्बरसको मधु ।अप्_301.011अब्।
सहदेवी महालक्ष्मीः पुत्रजीवी कृताञ्जलिः

301.012

:प् 115
एतच्चूर्णं शिरःक्षिप्तं लिकस्य वशमुत्तमम् ।अप्_301.012अब्।
त्रिफलाचन्दनक्वाथप्रस्था द्विकुडवम् पृथक्

301.013

भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु ।अप्_301.013अब्।
घृतैः पक्वा निशा छाया शुष्का लिप्या तु रञ्जनी

301.014

विदारीं सोच्चटामाषचूर्णीभ्ह्तां सशर्करां ।अप्_301.014अब्।
गथितां यः विपेत् क्षीरैर् नित्यं स्त्रीशतकं व्रजेत्

301.015

गुल्ममाषतिलव्रीहिचूर्णक्षीरसितान्वितं ।अप्_301.015अब्।
अश्वत्थवंशदर्भाणां मूलं वै वैष्णवीश्नियोः

301.016

मूलं दूर्वाश्वगन्धोत्थं पिवेत् क्षीरैः सुतार्थिनी ।अप्_301.016अब्।
कौन्तीलक्ष्म्याः शिफा धात्री वज्रं लोघ्नं वटाङ्कुरम्

301.017

आज्यक्षीरमृतौ पेयं पुत्रार्थं त्रिदिवं स्त्रिया ।अप्_301.017अब्।
पुत्रार्थिनी पिवेत् क्षीरं श्रीमूलं सवटाङ्कुरम्

301.018

श्रीवडाङ्कुरदेवीनां रसं नस्ये विपेच्च सा ।अप्_301.018अब्।
श्रीपद्ममूलमुत्क्षीरमश्वत्थोत्तरमूलयुक्

301.019

तरलं पयसा युक्तं कार्पासफलपल्ल्वं ।अप्_301.019अब्।
अपामार्गस्य पुष्पाग्रं नवं समहिषीपयः

301.020

पुत्रार्थञ्चार्धषट्शाकैर् योगाश् चत्वार ईरिताः ।अप्_301.020अब्।
शर्करोत्पलपुष्पाक्षलोध्रचन्दनसारिवाः

301.021

स्रवमाणे स्त्रिया गर्भे दातव्यास्तण्डुलाम्भसा ।अप्_301.021अब्।
लाजा यष्टिसिताद्राक्षाक्षौद्रसर्पींषि वा लिहेत्

301.022

अटरुषकलाङ्गुल्यः काकमाच्याः शिफा पृथक् ।अप्_301.022अब्।
नाभेरधः समालिप्य प्रसूते प्रमदा सुखम्

301.023

रक्तं शुक्लं जावापुष्पं रक्तशुक्लस्त्रुतौ पिवेत् ।अप्_301.023अब्।
:प् 116
केशरं वृहतीमूलं गोपीयष्टितृणोत्पलम्

301.024

साजक्षीरं सतैलं तद्भक्षणं रोमजन्मकृत् ।अप्_301.024अब्।
शीर्यमाणेषु केशेषु स्थापनञ्च भवेदिदम्

301.025

धात्रीभृङ्गरसप्रस्थतैलञ्च क्षिरमाढकम् ।अप्_301.025अब्।
ओं नमो भगवते त्र्यम्बकाय उपशमय 2 चुलु 2 मिलि 2 भिद 2 गोमानिनि
चक्रिणि ह्रूं फट् ॥
अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु 2 शान्तिं कुरु 2
घण्डाकर्णो महासेनो वीरः प्रोक्तो महाबलः

301.026

मारीनिर्नाशनकरः स मां पातु जगत्पतिः ।अप्_301.026अब्।
श्लोकौ चैव न्यसेदेतौ मन्त्रौ गोरक्षकौ पृथक्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc