अग्नि पुराण · अध्याय 300
:ए इत्य् आग्नेये महापुराणे ग्रहहृन्मन्त्रादिकं नाम
नवनवत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {300}
:श् अथ त्रिशततमो ऽध्यायः
सूर्यार्चनम्
अग्निर् उवाच
शय्या तु दण्डिसाजेशपावकश् चतुराननः ।अप्_300.001अब्।
सर्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते
स्वयं दीर्घस्वराद्यञ्च वीजेष्वङ्गानि सर्वशः ।अप्_300.002अब्।
खातं साधु विषञ्चैव सविन्दुं सकलं तथा
:प् 112
गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् ।अप्_300.003अब्।
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्त्राय
महोहरहस्ताय
पञ्चाङ्गं सर्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतेः
गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय
दिग्दले पूजयेन्मूर्तीः पुरावच्चाङ्गपञ्चकम् ।अप्_300.004अब्।
वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय
विकटाय विघ्नराजाय धूम्रवर्णाय
दिग्विदिक्षु यजेदेताल्लोकांशांश् चैव मुद्रया
मध्यमातर्जनीमध्यगताङ्गुष्ठौ समुष्टिकौ ।अप्_300.005अब्।
चतुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः
दन्तभक्षधरं रक्तं साब्जं पाशाड्कुशैर् वृतम् ।अप्_300.006अब्।
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः
श्वेतार्कमूलेन कृतं सर्वाप्तिः स्यात्तिलैर् घृतैः ।अप्_300.007अब्।
तण्डुलैर् दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत्
घोषासृक्प्राणधात्वर्दी दण्डी गार्तण्डभैरवः ।अप्_300.008अब्।
धर्मार्थकाममोक्षाणां कर्ता विम्बपुटावृतः
ह्रस्वाः स्युर्मूर्तर्यः पञ्च दीर्घा अङ्गानि तस्य च ।अप्_300.009अब्।
सिन्दूरारुणमीशाने वामार्धदयितं रविं
आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ।अप्_300.010अब्।
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं
कृतान्तमैशे निर्माल्यं तेजश् चण्डाय दीपितं ।अप्_300.011अब्।
रोचना कुङ्कुमं वारि रक्तगन्धाक्षताङ्कुराः
:प् 113
वेणुवीजयवाःशालिश्यामाकतिलराजिकाः ।अप्_300.012अब्।
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य तत्(1)
जानुभ्यामवनीङ्गत्वा सूर्यायार्घ्यं निवेदयेत् ।अप्_300.013अब्।
स्वविद्यामन्त्रितैः कुम्भैर् नवभिः प्रार्च्य वै ग्रहान्
ग्रहादिशान्तये स्नानं जप्त्वार्कं सर्वमाप्नुयात् ।अप्_300.014अब्।
संग्रामविजयं साग्निं वीजदोषं सविन्दुकं
न्यस्य मूर्धादिपादान्तं मूलं पूज्य तु मुद्रया ।अप्_300.015अब्।
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं
ध्यानञ्च मारणस्तम्भे पीतगाप्यायने सितम् ।अप्_300.016अब्।
रिपुघातविधौ(2) कृष्णं मोहयेच्छक्रचापवत्
यो ऽभिषेकजपध्यानपूजाहोमपरः सदा ।अप्_300.017अब्।
तेजस्वी हृजयः श्रीमान् समुद्रादौ जयं लभेत्
ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं ।अप्_300.018अब्।
न्यस्तुवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0