अग्नि पुराण · अध्याय 4
:ए इत्य् आदिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयो
ऽध्यायः ॥
:न्
1 हरिणा चासिना च्छिन्नमिति ग, चिह्नितपुस्तकपाठः
2 भवेयं ये तदा दानं दास्यन्ते स्यात्तदक्षयमिति ख,
चिह्नितपुस्तकपाठः
3 मायया मोहितो रुद्रस्तरसा तां जगाम ह । मोहिनीं प्राप्य
मतिमान् स्त्रियः केशामधारयदिति ग, चिह्नितपुस्तकपाठः
4 तत्र तत्र महातीर्थं क्षेत्राणामुत्तमोत्तममिति ग,
चिह्नितपुस्तकपाठः
:प् 7
% छप्तेर् {4}
:श् अथ चतुर्थो ऽध्यायः
वराहाद्यवतारवर्णनं
अग्निर् उवाच
अवतारं वराहस्य वक्ष्ये ऽहं पापनाशनम् ।अप्_4.001अब्।
हिरण्याक्षो ऽसुरेशो ऽभूत्(1) देवान् जित्वा(2) दिवि स्थितः
देवैर् गत्वा स्तुतो विष्णुर् यज्ञरूपो वराहकः ।अप्_4.002अब्।
अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्(2)
धर्मदेवादिरक्षाकृत् ततः सो ऽन्तर्दधे हरिः ।अप्_4.003अब्।
हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस् तथा(4)
जितदेवयज्ञभागः सर्वदेवाधिकारकृत् ।अप्_4.004अब्।
नारसिंहवपुः कृत्वा तं जघान सुरैः सह
स्वपदस्थान् सुरांश् चक्रे नारसिंहः सुरैः स्तुतः ।अप्_4.005अब्।
देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः
जिताः स्वर्गात्परिभ्रष्टा हरिं वै(5) शरणं गताः ।अप्_4.006अब्।
सुराणामभयं दत्वा अदित्या कश्यपेन च
स्तुतो ऽसौ वामनो भूत्वा ह्य् अदित्यां स क्रतुं ययौ ।अप्_4.007अब्।
बलेः श्रीयजमानस्य, राजद्वारे ऽगृणात् श्रुतिं
देवान् पठन्तं तं श्रुत्वा वामनं वरदो ऽब्रवीत् ।अप्_4.008अब्।
निवारितो ऽपि शुक्रेण बलिर् ब्रूहि यद् इच्छसि
तत्ते ऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् ।अप्_4.009अब्।
:न्
1 सुरेन्द्रोभूदिति घ, चिह्नितपुस्तकपाठः
2 सुरान् जित्वेति ख, चिह्नितपुस्तकपाठः
3 सार्धन्तु कण्टकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः
4 हिरण्यकशिपुस्तदेति घ, चिह्नितपुस्तकपाठः
5 हरिन्ते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
:प् 8
पदत्रयं हि गुर्वर्थं(1) देहि दास्ये तमब्रवीत्
तोये तु पतिते हस्ते वामनो ऽभूदवामनः ।अप्_4.010अब्।
भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयं
चक्रे बलिञ्च सूतलं तच्छक्राय ददौ हरिः ।अप्_4.011अब्।
शक्रो देवैर् हरिं स्तुत्वा भुवनेशः सुखी त्वभूत्
वक्ष्ये परशुरामस्य चावतारं शृणु द्विज ।अप्_4.012अब्।
उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः
अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः ।अप्_4.013अब्।
जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः
दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् ।अप्_4.014अब्।
सहस्रबाहुः सर्वोर्वी- पतिः स मृगयां गतः
श्रान्तो(2) निमन्त्रितो ऽरण्ये मुनिना जमदग्निना ।अप्_4.015अब्।
कामधेनुप्रभावेण भोजितः सबलो नृपः
अप्रार्थयत् कामधेनुं(3) यदा स न ददौ तदा ।अप्_4.016अब्।
हृतवानथ रामेण शिरश्छित्वा निपातितः
युद्धे परशुना राजा धेनुः स्वाश्रममाययौ(4) ।अप्_4.017अब्।
कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः
रामे वनं गते वैराद् अथ रामः समागतः ।अप्_4.018अब्।
पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः
त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः ।अप्_4.019अब्।
कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन्
:न्
1 मे गुर्वर्थमिति ख, चिह्नितपुस्तकपाठः
2 भ्रान्त इति ख, चिह्नितपुस्तकपाठः
3 अप्रार्थयद्धोमधेनुमिति ख, ग, चिहिनितपुस्तकद्वयपाठः
4 सधेनुश्चाश्रमं ययौ इति ख, घ, ङ,
चिह्नितपुस्तकत्रयपाठः
:प् 9
काश्यपाय महीं दत्वा महेन्द्रे पर्वते स्थितः ।अप्_4.020अब्।
कूर्मस्य च वराहस्य नृसिंहस्य च वामनं ।अप्_4.020च्द्।
अवतारं च रामस्य श्रुत्वा याति दिवं नरः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0