अग्नि पुराण · अध्याय 295
:ए इत्य् आग्नेये महापुराणे दष्टचिकित्सा नाम
चतुर्णवत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {295}
:श् अथ पञ्चनवत्यधिकद्विशततमो ऽध्यायः
पञ्चाङ्गरुद्रविधानं
अग्निर् उवाच
वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्वदं परं ।अप्_295.001अब्।
हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम्
शिखाभ्यः सम्भृतं सूक्तमाशुः कवचमेव च ।अप्_295.002अब्।
शतरुद्रियमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्तः क्रमात् ।अप्_295.003अब्।
यज्जाग्रत इति सूक्तं यदृचं मानसं विदुः
ऋषिः स्याच्छिवमङ्कल्पश्छन्दस्त्रिष्टुवुदाहृतं ।अप्_295.004अब्।
शिवः सहस्रशीर्षेति तस्य नारायणो ऽप्यृषिः
देवता पुरुषो ऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् ।अप्_295.005अब्।
अभ्यश्रसम्भृतं सूक्तमृषिरुत्तरगोनरः(1)
आद्यानान्तिमृणां त्रिष्टुप्छन्दो ऽनुष्ठुव्द्वयोरपि ।अप्_295.006अब्।
:न्
1 उत्तरगोनस इति ज.. , ट.. च
:प् 97
छन्दस्त्रिष्टुभमन्त्यायाः पुरुषो ऽस्यापि देषता
आशुरिन्त्रो द्वादशानां छन्दस्त्रिष्टुवुदाहृतं ।अप्_295.007अब्।
ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्चके
पृथक् पृथक् देवताः स्युः पुरुविदङ्गदेवता ।अप्_295.008अब्।
अवशिष्टदैवतेषु छन्दो ऽनुष्टुवुदाहृतं
असौ यमो भवित्रीन्द्रः पुरुलिङ्गोक्तदेवताः(1) ।अप्_295.009अब्।
पङ्क्तिच्छन्दो ऽथ मर्माणि त्वपलिङ्गोक्तदेवताः
रौद्राध्याये च सर्वस्मिन्नार्षं स्यात् परमेष्वपि ।अप्_295.010अब्।
प्रजापतिर्वा देवानां कुत्सस्य तिसृणाम् पुनः
मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश् च देवताः ।अप्_295.011अब्।
आद्योनुवाको ऽथ पूर्व एकरुद्राख्यदैवतः
छन्दो गायत्र्यमाद्याया अनुष्टुप् तिसृणामृचाम् ।अप्_295.012अब्।
तिसृणाञ्च तथा पङ्क्तिरनुष्टुवथ संस्मृतम्
द्वयोश् च जगतीछन्दो रुद्राणामप्यशीतयः ।अप्_295.013अब्।
हिरण्यवाहवस्तिस्रो नमो वः किरिकाय च
पञ्चर्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाककः(2) ।अप्_295.014अब्।
विंशके रुद्रदेवास्ताः प्रथमा वृहती स्मृता
ऋग्द्वितीया त्रिजगती त्रिष्टुवेव च ।अप्_295.015अब्।
अनुष्टुभो यजुस्तिस्र आर्यादिज्ञः सुसिद्धिभाक्
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्दनं(3) ।अप्_295.016अब्।
:न्
1 भवित्रीति त्रिष्टुब् लिङ्गोक्तदेवतेति ख..
2 रुद्रात्मवाचक इति ज.. , ट.. च
3 विषव्याधिविमर्दनमिति ज..
:प् 98
इं श्रीं ह्रीं ह्रौं हूं(1) त्रैलोक्यमोहनाय विष्णवे
नमः ।अप्_295.016च्द्।
अगुष्टुभं नृसिंहेन विषव्याधिविनाशनं
ओं इं इं(2) उग्रवीरं मंहाविष्णुं ज्वलन्तंसर्वतोमुखं ।अप्_295.017अब्।
नृसिंहं भीषणं मृत्युमृत्युम्नमाम्यहं
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः ।अप्_295.018अब्।
द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्दनौ
कुब्जिका त्रिपुरा गौरी चन्द्रिका(3) विषहारिणी ।अप्_295.019अब्।
प्रसादमन्त्रो विषहृदायुरारोग्यवर्धनः
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0