भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 28

28.001

:ए इत्य् आदिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम
सप्तविंशोध्यायः
:न्
1 पशूनिति घ, चिह्नितपुस्तकपाठः
2 तत् पुनरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः
:प् 78
% छप्तेर् {28}
:श् अथ अष्टाविंशोध्यायः
अभिषेकविधानं
नारद उवाच
अभिषेकं प्रवक्ष्यामि यथाचार्यस्तु पुत्रकः ।अप्_28.001अब्।
सिद्धिभाक् साधको येन रोगी रोगाद्विमुच्यते

28.002

राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनं ।अप्_28.002अब्।
मूर्तिकुम्भान् सुरत्नाढ्यान्मध्यपूर्वादितो न्यसेत्

28.003

सहस्रावर्तितान् कुर्यादथवा शतवर्तितान् ।अप्_28.003अब्।
मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठिके

28.004

निवेश्य शकलीकृत्य पुत्रकं साधकादिकं ।अप्_28.004अब्।
अभिषेकं समभ्यर्च्य कुर्याद्गीतादिपूर्वकं

28.005

दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः ।अप्_28.005अब्।
गुरुश् च समयान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc