भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 276

276.001

:ए इत्य् आग्नेये महापुराणे द्वादशसङ्ग्रामा नाम
पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः
:न्
1 सुरासुरैर् अमन्थाब्धिमिति क.. , छ.. च..
2 देवासुरहरो ऽभवदिति क.. , घ.. , ञ.. , ट.. च..
:प् 21
% छप्तेर् {276}
:श् अथ षट्सप्तत्यधिकद्विशततमो ऽध्यायः
राजवंशवर्णनं
अग्निर् उवाच
तुर्वसोश् च सुतो वर्गो गोभानुस्तस्य चात्मजः(1) ।अप्_276.001अब्।
गोभानोरासीत्(2) त्रैशानिस्त्रैशानेस्तु करन्धमः

276.002

करन्धमान्मरुत्तोभूद् दुष्मन्तस्तस्य चात्मजः ।अप्_276.002अब्।
दुष्मन्तस्य वरूथो ऽभूद्गाण्डीरस्तु वरूथतः

276.003

गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।अप्_276.003अब्।
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला(3) महाबलाः

276.004

द्रुह्यस्तु वभ्रुसेतुश् च बभ्रुसेतोः पुरोवसुः ।अप्_276.004अब्।
ततो गान्धारा गान्धारैर् धर्मो धर्माद् घृतो ऽभवत्

276.005

घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् ।अप्_276.005अब्।
आनद्रश् च सभानरश्चाक्षुषः परमेषुकः

276.006

सभानरात् कालानलः कालानलजस्रृञ्जयः ।अप्_276.006अब्।
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः

276.007

तत्पुत्रस्तु महाशालस्तत्पुत्रो ऽभुन्महामनाः ।अप्_276.007अब्।
तस्मादुशीनरो ब्रह्मन्नृगायान्तु नृगस्ततः

276.008

नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः ।अप्_276.008अब्।
:न्
1 शोभानुस्तस्य चात्मज इति ख ..
2 शोभानोरासीदिति ख ..
3 कर्णा इति ज.. , ट.. च ..
:प् 22
दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस् तथा

276.009

शिवे पुत्रास्तु चत्वारः पृथुदर्भश् च वीरकः ।अप्_276.009अब्।
कैकेयो भद्रकस्तेषां नाम्रा जनपदाः शुभाः

276.010

तितिक्षुरुशीनरजस्तितिक्षोश् च रुषद्रथः ।अप्_276.010अब्।
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः

276.011

महायोगि बलिस्तस्मादङ्गो वङ्गश् च मुख्यकः ।अप्_276.011अब्।
पुण्ड्रः कलिङ्गो बालेयो बलिर्योगी बलान्वितः

276.012

अङ्गाद्दधिवाहनो ऽभूत्(1) तस्माद्दिविरथो नृपः ।अप्_276.012अब्।
दिविरथाद्धर्मरथस्तस्य चित्ररथः सुतः

276.013

चित्ररथात्सत्यरथो लोमपदश् च तत्सुतः ।अप्_276.013अब्।
लोमपादाच्चतुरङ्गः पृथुलाक्षश् च तत्सुतः

276.014

पृथुलाक्षाच्च चम्पो ऽभूच्चम्पाद्धर्यङ्गको ऽभवत् ।अप्_276.014अब्।
हर्यङ्गाच्च भद्ररथो बृहत्कर्मा च तत्सुतः

276.015

तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।अप्_276.015अब्।
तस्माज्जयद्रथो ह्य् आसीज्जयद्रथाद्वृहद्रथः

276.016

वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितो ऽभवत् ।अप्_276.016अब्।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।अप्_276.016च्द्।
एतो ऽङ्गवंशजा भूपाः पूरोर्वंशं विबोध मे

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc