भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 275

275.001

:ए इत्य् आग्नेये महापुराणे यदुवंशवर्णनं नाम
चतुःसप्तत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {275}
:श् अथ पञ्चसप्तत्यधिकद्विशततमो ऽध्यायः
द्वादशसङ्ग्रामाः
अग्निर् उवाच
कश्यपो वसुदेवो ऽभूद्देवकी चादितिर्वरा ।अप्_275.001अब्।
देवक्यां वसुदेवात्तु कृष्णो ऽभूत्तपसान्वितः

275.002

धर्मसंरक्षणार्थाय ह्य् अधर्महरणाय च ।अप्_275.002अब्।
सुरादेः पालनार्थञ्च दैत्यादेर्मथनाय च

275.003

रुक्मणी सत्यभामा च सत्या नग्नजिती प्रिया ।अप्_275.003अब्।
सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा

275.004

मित्रविन्दा(1) च कालिन्दी देवी जाम्बवती तथा ।अप्_275.004अब्।
सुशीला च तथा माद्री कौशल्या विजया जया

275.005

:न्
1 चित्रविन्देति ख.. , छ.. च
:प् 19
एवमादीनि देवीनां सहस्राणि तु षोडश ।अप्_275.005अब्।
प्रद्युम्नाद्याश् च रुक्मिण्यां भीमाद्याः सत्यभामया

275.006

जाम्बवत्याञ्च शाम्बाद्याः कृष्णस्यासंस् तथापरे ।अप्_275.006अब्।
शतं शतसहस्राणां पुत्राणां तस्य धीमतः

275.007

अशीतिश् च सहस्राणि यादवाः कृष्णरक्षिताः ।अप्_275.007अब्।
प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः

275.008

अनिरुद्धस्य वज्राद्या यादवाः सुमहाबलाः ।अप्_275.008अब्।
तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः

275.009

मनुष्ये बाधका ये तु तन्नाशाय बभूव सः ।अप्_275.009अब्।
कर्तुं कर्मव्यवस्थानं मनुष्यो जायते हरिः

275.010

देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् ।अप्_275.010अब्।
प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः

275.011

सङ्ग्रामस्त्वथ वाराहश् चतुर्थो ऽमृतमन्थनः ।अप्_275.011अब्।
तारकामयसङ्ग्रामः षष्ठो ह्य् आजीवको रणः

275.012

त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः ।अप्_275.012अब्।
जितो हालाहलश्चाथ घोरः कोलाहलो रणः

275.013

हिरण्यकशिपोश्चोरो विदार्य च नखैः पुरा ।अप्_275.013अब्।
नारसिंहो देवपालः प्रह्नादं कृतवान् नृपम्

275.014

देवासुरे वामनश् च छलित्वा बलिमूर्जितम् ।अप्_275.014अब्।
महेन्द्राय ददौ राज्यं काश्यपो ऽदितिसम्भवः

275.015

वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् ।अप्_275.015अब्।
उज्जहार भुवं देवदेवैर् अभिष्टुतः

275.016

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।अप्_275.016अब्।
:प् 20
सुरासुरैश् च मथितं(1) देवेभ्यश्चामृतं ददौ

275.017

तारकामयसङ्ग्रामे तदा देवाश् च पालिताः ।अप्_275.017अब्।
निवार्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृतम्

275.018

विश्वामित्रवशिष्ठात्रिकवयश् च रणे सुरान् ।अप्_275.018अब्।
अपालयन्ते निर्वार्य रागद्वेषादिदानवान्

275.019

पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः ।अप्_275.019अब्।
ददाह त्रिपुरं देवपालको दैत्यमर्दनः

275.020

गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः ।अप्_275.020अब्।
अनुरक्तश् च रेवत्यां चक्रेचान्धासुरार्दनम्

275.021

अपां फेनमयो भूत्वा देवासुररणे हरन्(2) ।अप्_275.021अब्।
वृत्रं देवहरं विष्णुर्देवधर्मानपालयत्

275.022

शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः ।अप्_275.022अब्।
अपालयत् सुरादींश् च दुष्टक्षत्रं निहत्य च

275.023

हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् ।अप्_275.023अब्।
भयं निर्णाशयामास देवानां मधुसूदनः

275.024

देवासुरे रणे यश् च दैत्यः कोलाहलो जितः ।अप्_275.024अब्।
पालिताश् च सुराः सर्वे विष्णुना धर्मपालनात्

275.025

राजानो राजपुत्राश् च मुनयो देवता हरिः ।अप्_275.025अब्।
यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc