अग्नि पुराण · अध्याय 274
शतजिद्धैहयो रेणुहयो हय इति त्रयः ।अप्_273.002अब्।
धर्मनेत्रो हैहयस्य धर्मनेत्रस्य संहनः
महिमा संहनस्यासीन्महिम्नओ भद्रसेनकः ।अप्_274.003अब्।
भद्रसेनाद् दुर्गमो ऽभूद्दुर्गमात्कनको ऽभवत्
कनकात् कृतवीर्यस्तु कृताग्निः करवीरकः ।अप्_274.004अब्।
कृतौजाश् च चतुर्थो ऽभूत् कृतवीर्यात्तु सो ऽर्जुनः
दत्तो ऽर्जुनाय तपते सप्तद्वीपमहीशताम् ।अप्_274.005अब्।
ददौ बाहुसहस्रञ्च अजेयत्वं रणे ऽरिणा
:प् 14
अधर्मे वर्तमानस्य विष्णुहस्तान्मृतिर्ध्रुवा ।अप्_274.006अब्।
दश यज्ञसहस्राणि सो ऽर्जुनः कृतवान्नृपाः
अनष्टद्रव्यता राष्ट्रे तस्य संस्मरणादभूत् ।अप्_274.007अब्।
न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति वै नृपः
यज्ञैर् दानैस्तपोभिश् च विक्रमेण श्रुतेन च ।अप्_274.008अब्।
कर्तवीर्यस्य च शतं पुत्राणां पञ्च वै पराः
सूरसेनश् च सूरश् च धृष्टोक्तः कृष्ण एव च ।अप्_274.009अब्।
जयध्वजश् च नामासीदावन्त्यो नृपतिर्महान्
जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः ।अप्_274.010अब्।
हैहयानां कुलाः पञ्च भोजाश्चावन्तयस् तथा
वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च ।अप्_274.011अब्।
वीतिहोत्रादनन्तो ऽभुदनन्ताद्दुर्जयो नृपः
क्रोष्टोर्वंशं प्रवक्ष्यामि यत्र जातो हरिः स्वयम् ।अप्_274.012अब्।
क्रोष्टोस्तु वृजिनीवांश् च स्वाहाभूद्वृजिनीवतः
स्वाहापुत्रओ रुषद्गुश् च(1) तस्य चित्ररथः सुतः ।अप्_274.013अब्।
शशविन्दुश्चित्ररथाच्चक्रवर्ती हरौ रतः
शशविन्दोश् च पुत्त्राणां शतानामभवच्छतम् ।अप्_274.014अब्।
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्
पृथुश्रवाः प्रधानो ऽभूत्तस्य पुत्रः सुयज्ञकः ।अप्_274.015अब्।
सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनःसुतः
तितिक्षोस्तु मरुत्तो ऽभूत्तस्मात्कम्बलवर्हिषः ।अप्_274.016अब्।
पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः
:न्
1 विषांशुश्चेति ज..
:प् 15
हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितो ऽभवत् ।अप्_274.017अब्।
सेव्यायां ज्यामघादासीद्विदर्भस्तस्य कौशिकः
लोमपादः क्रथः श्रेष्ठात् कृतिः(1) स्याल्लोमपदतः ।अप्_274.018अब्।
कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः
क्रथाद्विदर्भपुत्राश् च कुन्तिः कुन्तेस्तु धृष्टकः ।अप्_274.019अब्।
धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः
दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते ।अप्_274.020अब्।
जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः
भीमरथान्नवरथस्ततो दृढरथो ऽभवत् ।अप्_274.021अब्।
शकुन्तिश् च दृढरथात् शकुन्तेश् च करम्भकः
करम्भाद्देवलातो ऽभूत्(2) देवक्षेत्रश् च तत्सुतः ।अप्_274.022अब्।
देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसो ऽभवत्
द्रवरसात् पुरुहूतो ऽभूज्जन्तुरासीत्तु तत्सुतः ।अप्_274.023अब्।
गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्त्वतः
सात्त्वताद्भजमानस्तु वृष्णिरन्धक एव च ।अप्_274.024अब्।
देवावृधश् च चत्वारस्तेषां वंशास्तु विश्रुताः(3)
भजमानस्य वाह्यो ऽभूद्वृष्टिः कृमिर्निमिस् तथा ।अप्_274.025अब्।
देवावृधाद्वभ्रुरासीत्तस्य श्लोको ऽत्र गीयते
यथैव शृणुमो दूरात् गुणांस्तद्वत्समन्तिकात् ।अप्_274.026अब्।
वभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधःसमः
चत्वारश् च सुता वभ्रोर्वासुदेवपरा नृपाः ।अप्_274.027अब्।
:न्
1 धृतिरिति ञ..
2 देवरातो ऽभुदिति ख.. , ग.. , घ.. , ज.. , ञ.. , ट.. , च
3 विस्तृता इति क.. , छ.. , च
:प् 16
कुहुरो भजमानस्तु(1) शिनिः कम्बलवर्हिषः
कुहुरस्य(2) सुतो धृष्णुधृष्णोस्तु तनयो धृतिः ।अप्_274.028अब्।
धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः
तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः ।अप्_274.029अब्।
पुनर्वसुस्तस्य पुत्र आहुकश्चाहुकीसुतः
आहुकाद्देवको जज्ञे उग्रसेनस्ततो ऽभवत् ।अप्_274.030अब्।
देववानुपदेवश् च देवकस्य सुताः स्मृताः
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।अप्_274.031अब्।
देवकी श्रुतदेवी च मित्रदेवी यथोधरा
श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी ।अप्_274.032अब्।
नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः
न्यग्रोधश् च सुनामा च कङ्कः शङ्कुश् च भूमिपः ।अप्_274.033अब्।
सुतनूराष्ट्रपालश् च युद्धमुष्टिः सुमुष्टिकः
भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः ।अप्_274.034अब्।
राजाधिदेवः शूरश् च विदूरथसुतो ऽभवत्
राजाधिदेवपुत्रौ द्वौ शोणाश् चः श्वेतवाहनः ।अप्_274.035अब्।
शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादयः(3)
शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः ।अप्_274.036अब्।
भोजस्य हृदिकः पुत्रो ह्य् अदिकस्य दशात्मजाः
कृतवर्मा शतधन्वा देवार्हो भीषणादयः ।अप्_274.037अब्।
:न्
1 कुकुरो भजमानस्त्विति क.. । सुन्दरो भजमानस्त्विति ज..
2 कुकुरस्येति क..
3 शक्रजिदादय इति ख..
:प् 17
देवार्हात् कम्बलवर्हिरसमौजास्ततो ऽभवत्
सुदंष्ट्रश् च सुवासश् च धृष्टो ऽभूदसमौजसः ।अप्_274.038अब्।
गान्धारी चैव माद्री च धृष्टभार्ये बभूवतुः
सुमित्रो ऽभूच्च गान्धार्यां माद्री जज्ञे युधाजितम्(1) ।अप्_274.039अब्।
अनमित्रः शिनिर्धृष्टात्ततो वै देवमीढुषः
अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः ।अप्_274.040अब्।
सत्राजितः प्रसेनो ऽथ मणिं सूर्यात्स्यमन्तकम्
प्राप्यारण्ये चरन्तन्तु सिंहो हत्वाग्रहीन्मणिं ।अप्_274.041अब्।
हतो जाम्बवता सिंहो जाम्बवान् हरिणा जितः
तस्मान्मणिं जाम्बवतीं प्राप्यागाद्दारकां पुरीम् ।अप्_274.042अब्।
सत्राजिताय प्रददौ शतधन्वा जघान तम्
हत्वा शतधनुं कृष्णो मणिमादाय कीर्तिभाक् ।अप्_274.043अब्।
बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत्
मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् ।अप्_274.044अब्।
सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया
अनमित्राच्छिनिर्जज्ञे सत्यकस्तु शिनेः सुतः ।अप्_274.045अब्।
सत्यकात्सात्यकिर्जज्ञे युयुधानाद्धुनिर्ह्यभूत्
धुनेर्युगन्धरः पुत्रः स्वाह्यो ऽभुत्(2) स युधाजितः ।अप्_274.046अब्।
ऋषभक्षेत्रकौ तस्य ह्य् ऋषभाच्च स्वफल्ककः
स्वफल्कपुत्रो ह्य् अक्रूरो अकूराच्च सुधन्वकः ।अप्_274.047अब्।
शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रियाभवत्
:न्
1 सुधाजितमिति ख.. , छ.. च
2 स्वान्धोभूदिति ख.. , छ.. च । साक्षो ऽभूदिति ज..
:प् 18
धर्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः ।अप्_274.048अब्।
इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः
वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ ।अप्_274.049अब्।
वसुदेवाच्च देवक्यामादौ जातः सुसेनकः
कीर्तिमान् भद्रसेनश् च जारुख्यो विष्णुदासकः ।अप्_274.050अब्।
भद्रदेहः कंश एतान् षड्गर्भान्निजघान ह
ततो बलस्ततः कृष्णः सुभद्रा भद्रभाषिणी ।अप्_274.051अब्।
चारुदेष्णश् च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0