अग्नि पुराण · अध्याय 273
:ए इत्य् आग्नेये महापुराणे सुर्यवंशकीर्तनं नाम
द्विसप्तत्यधिकद्विशततमो ऽध्यायः
:न्
1 सकर्माभूदिति ख.. , छ.. , च
:प् 11
% छप्तेर् {273}
:श् अथ त्रिसप्तत्यधिकद्विशततमो ऽध्यायः
सोमवंशवर्णनं
अग्निर् उवाच
सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् ।अप्_273.001अब्।
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः
सोमश् चक्रे राजसूयं त्रैलोक्यं दक्षिणान्ददौ ।अप्_273.002अब्।
समाप्ते ऽवभृथे सोमं तद्रूपालोकनेच्छवः
कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे ।अप्_273.003अब्।
लक्ष्मीर् नरायणं त्यक्त्वा सिनीवाली च कर्दमम
द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् ।अप्_273.004अब्।
प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम्
कीर्तिर्जयन्तम्भर्तारं वसुर्मारीचकश्ययम् ।अप्_273.005अब्।
धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा
स्वकीया इव सोमो ऽपि कामयामास तास्तदा ।अप्_273.006अब्।
एवं कृतापचारस्य तासां भर्तृगणस्तदा
न शशाकापचाराय(1) शापैः शस्त्रादिभिः पुनः ।अप्_273.007अब्।
सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्य् उत
विवभ्राम मतिस्तस्य विनयादनया हता ।अप्_273.008अब्।
वृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम्
जहार तरसा सोमो ह्य् अवमन्याङ्गिरःसुतम् ।अप्_273.009अब्।
ततस्तद्युद्धमभवत् प्रख्यातं तारकामयम्
:न्
1 न शशाकापकारायेति ञ..
:प् 12
देवानां दानवानाञ्च लोकक्षयकरं महत् ।अप्_273.010अब्।
ब्रह्मा निवार्योशनसन्तारामङ्गिरसे ददौ
तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः ।अप्_273.011अब्।
गर्भस्त्यक्तः प्रदीप्तो ऽथ प्राहाहं सोमसन्भवः
एवं सोमाद्बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः ।अप्_273.012अब्।
स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः
तया सहाचरद्राजा दशवर्षाणि पञ्च च ।अप्_273.013अब्।
पञ्च षट् सप्त चाष्टौ च दश चाष्टौ महामुने
एको ऽग्निरभवत् पूर्वं तेन त्रेता प्रवर्तिता ।अप्_273.014अब्।
पुरूरवा योगशीलो गान्धर्वलोकमीयिवान्
आयुर्दृ.ढायुरश्वायुर्धनायुर्धृतिमान् वसुः ।अप्_273.015अब्।
दिविजातः शतायुश् च सुषुवे चोर्वशी नृपान्
आयुषो नहुषः पुत्रो वृद्धशर्मा रजिस् तथा ।अप्_273.016अब्।
दर्भो विपाप्मा पञ्चाग्न्यं(1) रजेः पुत्रशतं ह्य् अभूत्
राजेया इति विख्याता विष्णुदत्तवरो रजिः ।अप्_273.017अब्।
देवासुरे रणे दैत्यानबधीत्सुरयाचितः
गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः ।अप्_273.018अब्।
रजेः पुत्रैर् हृतं राज्यं शक्रस्याथ सुदुर्मनाः
ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ ।अप्_273.019अब्।
मोहयित्वा रजिसुतानासंस्ते निजधर्मगाः
नहुषस्य सुताः सप्त यतिर्ययातिरुत्तमः ।अप्_273.020अब्।
उद्भवः पञ्चकश् चैव शर्यातिमेघपालकौ
:न्
1 पञ्चाग्न्या इति ज.. । पञ्चाग्न्यमिति ञ..
:प् 13
यतिः कुमारभावे ऽपि विष्णुं ध्यात्वा हरिं गतः ।अप्_273.021अब्।
देवयानी शक्रकन्या ययातेः पत्न्य् अभूत् तदा
वृषपर्वजा शर्मिष्ठा ययातेः पञ्च तत्सुताः ।अप्_273.022अब्।
यदुञ्च तुर्वसुञ्चैव देवयानी व्यजायत
द्रुह्यञ्चानूञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी ।अप्_273.023अब्।
यदुः पूरुश्चाभवतान्तेषां वंशविवर्धनौ
:ए इत्य् आग्नेये महापुराणे सोमवंशवर्णनं नम
त्रिसप्तत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {274}
अथ चतुःसप्तत्यधिकद्विशततमो ऽध्यायः
यदुवंशवर्णनं
अग्निर् उवाच
यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् ।अप्_274.001अब्।
नीलाञ्जको रधुः क्रोष्टुः शतजिच्च सहस्रजित्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0