भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 272

272.001

इत्यग्नेये महपुरणे दानादिमाहत्म्यं नामैक
सप्तत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {272}
:श् अथ द्विसप्तत्यधिकद्विशततमो ऽध्यायः
सूर्यवंशकीर्तनं
अग्निर् उवाच
सूर्यवंशं सोमवंशं रज्ञां वंशं वदमि ते ।अप्_272.001अब्।
हरेर्ब्रह्मा पद्मगो ऽभून्मरीचिर्ब्रह्मणः सुतः

272.002

मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि ।अप्_272.002अब्।
संज्ञा राज्ञी(1) प्रभा तिस्रो राज्ञी रैवतपुत्रिका

272.003

रेवन्तं सुषुवे पुत्रं प्रभातञ्च प्रभा रवेः ।अप्_272.003अब्।
त्वाष्ट्री संज्ञा मनुं पुत्रं यमलौ यमुनां यमम्

272.004

छाया संज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् ।अप्_272.004अब्।
शनिञ्च तपतीं विष्टिं संज्ञायाञ्चाश्विनौ पुनः

272.005

मनोर्वैवस्वतस्यासन् पुत्रा वै न च तत्समाः ।अप्_272.005अब्।
इक्ष्वाकुश् चैव नाभागो धृष्टःशर्यातिरेव च

272.006

नरिष्यन्तस् तथा प्रांशुर्नाभागादिष्टसत्तमाः ।अप्_272.006अब्।
करुषश् च पृषध्रश् च अयोध्यायां महाबलाः

272.007

कन्येला च मनोरासीद्बुधात्तस्यां पुरूरवाः ।अप्_272.007अब्।
पुरूरवसमुच्पाद्य सेला सुद्युम्नताङ्गता

272.008

:न्
1 अत्र छायेतिपाठो युक्तः
:प् 8
सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः ।अप्_272.008अब्।
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमा

272.009

दिक् सर्वा राजवर्यस्य गयस्य तु गयापुरी ।अप्_272.009अब्।
वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह

272.010

तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु ।अप्_272.010अब्।
नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः

272.011

अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् ।अप्_272.011अब्।
सुकल्पानर्तौ शर्यार्तेर्वैरोह्यानर्ततो नृपः

272.012

आनर्तविषयश्चासीत् पुरी चासीत् कुशस्थली ।अप्_272.012अब्।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः

272.013

ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।अप्_272.013अब्।
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके

272.014

मुहूर्तभूतं देवस्य मर्त्ये बहुयुगं गतम् ।अप्_272.014अब्।
आजगाम जवेनाथ स्वां पुरीं यादवैर् वृताम्

272.015

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।अप्_272.015अब्।
भोजवृष्ण्यन्धकैर् गुप्तां(?) वासुदेवपुरोगमैः

272.016

रेवतीं बलदेवाय ददौ ज्ञात्वा ह्य् अनिन्दिताम् ।अप्_272.016अब्।
तपः सुमेरुशिखरे तप्त्वा विष्ण्वालयं गतः

272.017

नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।अप्_272.017अब्।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः

272.018

शूद्रत्वञ्च पृषध्रो ऽगाद्धिंसयित्वा गुरोश् च गाम् ।अप्_272.018अब्।
मनुपुत्रादथेक्षाकोर्विकुक्षिर्देवराडभूत्

272.019

विकुक्षेस्तु ककुत्स्थो ऽभूत्तस्य पुत्रः सुयोधनः ।अप्_272.019अब्।
:प् 9
तस्य पुत्रः पृथुर् नाम विश्वगश्वः पृथोः सुतः

272.020

आयुस्तस्य च पुत्रो ऽभूद्युवनाश्वस् तथा सुतः ।अप्_272.020अब्।
युवनाश्वाच्च श्रावन्तः पूर्वे श्रावन्तिका पुरी

272.021

श्रावन्ताद् वृहदश्वो ऽभूत् कुबलाश्वस्ततो नृपः ।अप्_272.021अब्।
धुन्धुमारत्वमगमद्धुन्धोर् नाम्ना च वै पुरा

272.022

धुन्धुमारास्त्रयो भूपा दृढाश्वो दण्ड एव च ।अप्_272.022अब्।
कपिलो ऽथ दृढाश्वात्तु हर्यश्वश् च प्रमोदकः

272.023

हर्यश्वाच्च निकुम्भो ऽभूत् संहताश्वो निकुम्भतः ।अप्_272.023अब्।
अकृशाश्वो रणाश्वश् च संहताश्वसुतावुभौ

272.024

युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः ।अप्_272.024अब्।
मान्धातुः पुरुकुत्सो ऽभून्मुचुकुन्दो द्वितीयकः

272.025

पुरुकुत्सादसस्युश् च सम्भूतो नर्मदाभवः ।अप्_272.025अब्।
सम्भूतस्य सुधन्वाभूत्त्रिधन्वाथ सुधन्वनः

272.026

त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः ।अप्_272.026अब्।
सत्यव्रतात्सत्यरथो हरिश् चन्द्रश् च तत्सुतः

272.027

हरिश् चन्द्राद्रोहिताश्वो रोहिताश्वाद्वृको ऽभवत् ।अप्_272.027अब्।
वृकाद्वाहुश् च वाहोश् च सगरस्तस्य च प्रिया

272.028

प्रभा षष्टिसहस्राणां सुतानां जननी ह्य् अभूत् ।अप्_272.028अब्।
तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम्

272.029

खनन्तः पृथिवीं दग्धा विष्णुना(1) बहुसागराः ।अप्_272.029अब्।
असमञ्जसो ऽंश्रुमांश् च दिलीपो ऽंशुमतो ऽभवत्

272.030

भगीरथो दिलीपात्तु येन गङ्गावतारिता ।अप्_272.030अब्।
:न्
1 मुनिनेति ज..
:प् 10
भगीरथात्तु नाभागो नाभागादम्बरीषकः

272.031

सिन्धुद्वीपो ऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः ।अप्_272.031अब्।
श्रुतायोरृतपर्णो ऽभूत्तस्य कल्माषपादकः

272.032

कल्माषाङ्घ्रेः सर्वकर्मा(1) ह्य् अनरण्यस्ततो ऽभवत् ।अप्_272.032अब्।
अनरण्यात्तु निघ्नो ऽथ अनमित्रस्ततो रघुः

272.033

रघोरभुद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः ।अप्_272.033अब्।
दीर्घवाहुरजात् कालस्त्वजापालस्ततो ऽभवत्

272.034

तथ दशरथो जातस्तस्य पुत्रचतुष्टयम् ।अप्_272.034अब्।
नारायणात्मकाः सर्वे रामस्तस्याग्रजो ऽभवत्

272.035

रावणान्तकरो राजा ह्य् अयोध्यायां रघूत्तमः ।अप्_272.035अब्।
वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात्

272.036

रामपुत्रौ कुशलवौ सीतायां कुलवर्धनौ ।अप्_272.036अब्।
अतिथिश् च कुशाज्जज्ञे निषधस्तस्य चात्मजः

272.037

निषधात्तु नलो जज्ञे नभो ऽजायत वै नलात् ।अप्_272.037अब्।
नभसः पुण्डरीको ऽभूत् सुधन्वा च ततो ऽभवत्

272.038

सुधन्वनो देवानीको ह्य् अहीनाश्वश् च तत्सुतः ।अप्_272.038अब्।
अहीनाश्वात् सहस्राश्वश् चन्द्रालोकस्ततो ऽभवत्

272.039

चन्द्रावलोकतस्तारापीडो ऽस्माच्चन्द्रपर्वतः ।अप्_272.039अब्।
चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः ।अप्_272.039च्द्।
इक्ष्वाकुवंशप्रभवाः सूर्यवंशधराः स्मृताः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc