अग्नि पुराण · अध्याय 271
इत्याग्नेये महापुराणे वेदशाखादिकीर्तिनं नाम
सप्तत्यधिकद्विशततमो ऽध्यायः
% छप्तेर् {271}
:श् अथैकसप्तत्यधिकद्विशततमो ऽध्यायः
दानादिमाहत्म्यं
पुष्कर उवाच
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ।अप्_271.001अब्।
लक्षार्धाद्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदापयेत्
वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् ।अप्_271.002अब्।
पाद्मं द्वादशसाहस्रं द्यैष्ठे दद्याच्च धेनुमत्
वराहकल्पवृत्तान्तमधिकृत्य पराशरः ।अप्_271.003अब्।
त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत्
जलधेनुमदाषाढ्यां विष्णोः पदमवाप्नुयात् ।अप्_271.004अब्।
चतुर्दशसहस्राणि वायवीयं हरिप्रियं
श्वेतकल्पप्रसङ्गेन धर्मान् वायुरिहाब्रवीत् ।अप्_271.005अब्।
दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुडधेनुमत्
यत्राधिकृत्य गायत्रीं कीर्त्यते धर्मविस्तरः ।अप्_271.006अब्।
:प् 5
वृत्रासुरबधोपेतं तद्भागवतमुच्यते
सारस्वतस्त कल्पस्य प्रोष्ठपद्यान्तु तद्ददेत् ।अप्_271.007अब्।
अष्टादशसहस्राणि हेमसिंहसमन्वितं
यत्राह नारदो धर्मान् वृहत्कल्पाश्रितानिहं ।अप्_271.008अब्।
पञ्चविंशसहस्राणि नारदीयं तदुच्यते
सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् ।अप्_271.009अब्।
यत्राधिकृत्य शत्रूनान्धर्माधर्मविचारणा
कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् ।अप्_271.010अब्।
अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत्
लिखित्वा पुस्तकं दद्यान्मार्गशीर्ष्यां स सर्वदः ।अप्_271.011अब्।
द्वादशैव सहस्राणि सर्वविद्यावबोधनं(1)
चतुर्दशसहस्राणि भविष्यं सूर्यसम्भवं ।अप्_271.012अब्।
भवस्तु मनवे प्राह दद्यात् पौष्यां गुडादिमत्
सावर्णिना नारदाय ब्रह्मवैवर्तमीरितं ।अप्_271.013अब्।
रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं
माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मलोकभाक् ।अप्_271.014अब्।
यत्रग्निलिङ्गमध्यस्थो धर्मान्प्राह महेश्वरः
आग्नेयकल्पे तल्लिङ्गमेकादशसहस्रकम् ।अप्_271.015अब्।
तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत्
चतुर्दशसहस्राणि वाराहं विष्णुणेरितम् ।अप्_271.016अब्।
भूमौ वराहचरितं मानवस्य प्रवृत्तितः
सहेमगरुडञ्चैत्र्यां पदमाप्नोति वैष्णवम् ।अप्_271.017अब्।
:न्
1 सर्वविद्यावधारणमिति ञ ..
:प् 6
चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत्
अधिकृत्य सधर्मांश् च कल्पे तत्पुरुषे ऽर्पयेत् ।अप्_271.018अब्।
वामनं दशसाहस्रं धौमकल्पे हरेः कथां
दद्यात् शरदि विषुवे धर्मार्थादिनिबोधनम् ।अप्_271.019अब्।
कूर्मञ्चाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले
इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् ।अप्_271.020अब्।
त्रयोदशसहस्राणि मात्स्यं कल्पादितो ऽब्रवीत्
मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् ।अप्_271.021अब्।
गारुडञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके
विश्वाण्डाद्गरुडोत्पत्तिं तद्दद्याद्धेमहंसवत् ।अप्_271.022अब्।
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रबीत्तु यत्
तच्च द्वादशसाहस्रं ब्रह्माण्डं तद्द्विजे ऽर्पयेत् ।अप्_271.023अब्।
भारते पर्वसमाप्तौ वस्त्रगन्धस्रगादिभिः
वाचकं पूजयेदादौ भोजयेत् पायसैर् द्विजान् ।अप्_271.024अब्।
गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि
समाप्ते भारते विप्रं संहितापुस्तकान्यजेत् ।अप्_271.025अब्।
शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान्
नरनारयणौ पूज्यौ पुस्तकाः कुसुमादिभिः ।अप्_271.026अब्।
गो ऽन्नभूहेम दद्वाथ भोजयित्वा क्षमापयेत्
महादानानि देयानि रत्नानि विविधानि च ।अप्_271.027अब्।
मासकौ द्वौ त्रयश् चैव मासे मासे प्रदापयेत्
अयनादौ श्राबकस्य दानमादौ विधीयते ।अप्_271.028अब्।
श्रोतृभिः सकलैः कार्यं श्रावके पूजनं द्विज
:प् 7
इतिहासपुराणानां पुस्तकानि प्रयच्छति ।अप्_271.029अब्।
पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0