अग्नि पुराण · अध्याय 270
:ए इत्य् आग्नेये महापुराणे विष्णुपञ्जरं
नामोनसप्रत्यधिकद्विशततमो ऽध्यायः
:प् 2
% छप्तेर् {270}
:श् अथ सप्तत्यधिकद्विशततमो ऽध्यायः
वेदशाखदिकीर्तनं
पुष्कर उवाच
सर्वानुग्राहका मन्त्राश् चतुर्वर्गप्रसाधकाः ।अप्_270.001अब्।
ऋगथर्व तथा साम यजुः संख्या तु लक्षकं
भेदः साङ्ख्यायनश् चैक आश्वलायनो द्वितीयकः ।अप्_270.002अब्।
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं
ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।अप्_270.003अब्।
एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस् तथा
शतानि दश विप्राणां षडशीतिश् च शाखिकाः ।अप्_270.004अब्।
काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा
मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।अप्_270.005अब्।
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः
साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।अप्_270.006अब्।
गानान्यपि च चत्वारि वेद आरण्यकन्तथा
उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः ।अप्_270.007अब्।
सचतुःशतकाश् चैव ब्रह्मसङ्घटकाः स्मृताः
पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं ।अप्_270.008अब्।
सुमन्तुर्जाजलिश् चैव श्लोकायनिरथर्वके
शौनकः पिप्पलादश् च मुञ्जकेशादयो ऽपरे ।अप्_270.009अब्।
मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं
व्यासरूपी स भगवान् शाखाभेदद्यकारयत् ।अप्_270.010अब्।
:प् 3
शाखाभेदादयो विष्णुरितिहासः पुराणकं
प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः ।अप्_270.011अब्।
सुमतिश्चाग्निवर्चाश् च मित्रयुःशिंशपायनः
कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ।अप्_270.012अब्।
शांशपायनादयश् चक्रुः(1) पुराणानान्तु संहिताः
ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।अप्_270.013अब्।
महापुराणे ह्य् आग्नेये विद्यारूपो हरिः स्थितः
सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् ।अप्_270.014अब्।
तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात्
विष्णुर्जिष्णुर्भविष्णुश् च अग्निसूर्यादिरूपवान् ।अप्_270.015अब्।
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः
वेदेषु सपुराणेषु यज्ञमूर्तिश् च गीयते ।अप्_270.016अब्।
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं
आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः ।अप्_270.017अब्।
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत्
सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्(2) ।अप्_270.018अब्।
सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां
विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम्(3) ।अप्_270.019अब्।
राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम्
स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।अप्_270.020अब्।
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां
:न्
1 शिंशपायनादयश् चक्रुरिति ख ..
2 परमिति ञ ..
3 श्रीबलप्रदमिति ञ ..
:प् 4
कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् ।अप्_270.021अब्।
गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम्
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।अप्_270.022अब्।
पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0