भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 269

269.001

:ए इत्य् आग्नेये महापुराणे छत्रादिमन्त्रादयः
नामाष्टषष्ठ्यधिकद्विशततमो ऽध्यायः ॥
:प् 481
अग्निपुराणम्
महर्षिश्रीमद्वेदव्यासेन प्रणीतम्
श्रीलश्री वङ्गदेशीयासियातिक्-समाजानुज्ञया
श्रीराजेन्द्रलालमित्रेण परिशोधितम्
कलिकाताराजधान्यां गणेशयन्त्रे मुद्रितञ्च
संवत् 1933
अग्निपुराणम्
% छप्तेर् {269}
:श् अथोनसप्तत्यधिकद्विशततमो ऽध्यायः
विष्णुपञ्जरं
पुष्कर उवच
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।अप्_269.001अब्।
शङ्करस्य द्विजश्रेष्थ रक्षणाय निरूपितं

269.002

वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।अप्_269.002अब्।
तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत्

269.003

विष्णुः प्राच्यां स्थितश् चक्री हरिर्दक्षिनणतो गदी ।अप्_269.003अब्।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे

269.004

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।अप्_269.004अब्।
क्रोडरूपी हरिर्भूमौ नरसिंहो ऽम्बरे मम

269.005

क्षुरान्तममलञ्चक्रं भ्रमत्येतत् सुदर्शनं ।अप्_269.005अब्।
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान्

269.006

गदा चेयं सहस्रार्चिःप्रदीप्तपावकोज्ज्वला ।अप्_269.006अब्।
रक्षोभूतपिशाचानां डाकिनीनाञ्च नाशनी

269.007

शार्ङ्गविस्फूर्जितञ्चैव वासुदेवस्य मद्रिपून् ।अप्_269.007अब्।
तिर्यङ्मनुष्यकुष्माण्डप्रेतादीन् हन्त्वशेषतः

269.008

:प् 1
खड्गधारोज्ज्वलज्जो ऽत्स्नानिर्धूता ये समाहिताः ।अप्_269.008अब्।
ते यान्तु शाम्यतां सद्यो गरुडेनेव पन्नगाः

269.009

ये कुष्माण्डास्था यक्षा ये दैत्या ये निशाचराः ।अप्_269.009अब्।
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः

269.010

सिंहादयश् च पशवो दन्दशूकाश् च पन्नगाः ।अप्_269.010अब्।
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः

269.011

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।अप्_269.011अब्।
बलौजसञ्च हर्तारश्छायाविभ्रंशकाश् च ये

269.012

ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।अप्_269.012अब्।
कुष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः

269.013

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।अप्_269.013अब्।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात्

269.014

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनोहरिः ।अप्_269.014अब्।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति

269.015

यथा परं ब्रह्म हरिस् तथा परः जगत्स्वरूपश् च स एव केशवः ।अप्_269.015अब्।
सत्येन तेनाच्युतनामकीर्तनात् प्रणाशयेत्तु त्रिविधंममाशुभं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc