अग्नि पुराण · अध्याय 27
:ए इत्य् आदिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम
षड्विंशो ऽध्यायः
% छप्तेर् {27}
:श् अथ सप्तविंशो ऽध्यायः
दीक्षाविधिकथनं
नारद उवाच
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् ।अप्_27.001अब्।
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं
विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं ।अप्_27.002अब्।
सर्षपांस्तु फडन्तेन(1) रक्षोघ्नान् सर्वतः क्षिपेत्
शक्तिं सर्वात्मकां तत्र न्यसेत् प्रासादरूपिणीं ।अप्_27.003अब्।
सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत्
शतवारं शुभे पात्रे वासुदेवेन साधकः ।अप्_27.004अब्।
संसाध्य पण्जगव्यन्तु पञ्चभिर्मूलमूर्तिभिः
नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तांभुवं(3)।अप्_27.005अब्।
विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना
त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि ।अप्_27.006अब्।
वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत्
:न्
1 सर्षपांस्तद्वदस्त्रेण इति ङ, चिह्नितपुस्तकपाठः
2 कुशाग्रेणैव तां भुवमिति ङ, चिह्नितपुस्तकपाट्ःअः
:प् 71
शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीं ।अप्_27.007अब्।
अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तं
कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।अप्_27.008अब्।
संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत्
सवस्त्रं पञ्चरत्नाढ्यं खण्डिले पूजयेद्धरिं ।अप्_27.009अब्।
अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत्
प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना ।अप्_27.010अब्।
उखामाज्येन(1) संपूर्य गोक्षीरेण तु साधकः
आलोक्य वासुदेवेन(2) ततः सङ्कर्षणेन च ।अप्_27.011अब्।
तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते
प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः ।अप्_27.012अब्।
पक्वमुत्तारयेत् पश्चादनिरुद्धेन देशिकः
प्रक्षाल्यालिप्य तत् कुर्यादूर्ध्वपुण्ड्रं तु भस्मना ।अप्_27.013अब्।
नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं
भागमेकं तु देवाय कलशाय द्वितीयकं ।अप्_27.014अब्।
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं
शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये(3) ।अप्_27.015अब्।
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम्
दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं ।अप्_27.016अब्।
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं
शुभं सिंहशतं हुत्वा(4) आचम्याथ प्रविश्य च ।अप्_27.017अब्।
:न्
1 उत्थायाज्येनेति ख, चिह्नितपुस्तकपाठः
2 आलोड्य वासुदेवेन इति ख, चिह्नितपुस्तकपाठः
3 विवृद्धये इति ङ, चिह्नितपुस्तकपाठः
4 शुभं सिद्धमिति ज्ञात्वा ङ, चिह्नितपुस्तकपाठः
:प् 72
पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं
संसारार्णवमग्नानां पशूनां पाशमुक्तये ।अप्_27.018अब्।
त्वमेव शरणं देव सदा त्वं भक्तवत्सल
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।अप्_27.019अब्।
पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान्
इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।अप्_27.020अब्।
धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना
संस्कृत्य मूर्त्या संयोज्य(1) नेत्रे बद्ध्वा प्रदर्शयेत् ।अप्_27.021अब्।
पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत्
अमन्त्रमर्चनं तत्र पूर्ववत् कारयेत् क्रमात् ।अप्_27.022अब्।
यस्यां मूर्तौ पतेत् पुष्पं तस्य तन्नाम निर्दिशेत्
शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं ।अप्_27.023अब्।
कन्यासु कर्तितं रक्तं(2) पुनस्तत्त्रिगुणीकृतम्
यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।अप्_27.024अब्।
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत्
तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया(3) ।अप्_27.025अब्।
कृत्वा शरावे तत् सूत्रं कुण्डपार्श्वे निधाय तु(4)
ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।अप्_27.026अब्।
सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः
तत्रैकधा पण्चधा स्याद्दशद्वादशधापि वा(4) ।अप्_27.027अब्।
:न्
1 मूर्त्या सम्प्रोक्ष्य इति ङ, चिह्नितपुस्तकपाठः
2 सूत्रमिति ङ, चिह्नितपुस्तकपाठः
3 तत्र सङ्ख्यया इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
4 निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः
5 तत्रार्चा पञ्चधा या स्यादङ्गैर् द्वादशधापि वेति ख,
चिह्नितपुस्तकपाठः । तत्रात्मा पञ्चधा वा स्यात्
दशद्वदशधापिवेति घ, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 73
ज्ञातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः
अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् ।अप्_27.028अब्।
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ(1)
प्रकृतिर्लिङ्गशक्तिश् च कर्ता बुद्धिस् तथा मनः ।अप्_27.029अब्।
पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकं
ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।अप्_27.030अब्।
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु
एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः ।अप्_27.031अब्।
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत्
अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् ।अप्_27.032अब्।
करणीं कर्तरीं वापि(2) रजांसि खटिकामपि
अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे ।अप्_27.033अब्।
संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत्
नमो भूतेभ्यश् च बलिः कुशे शेते स्मरन् हरिं ।अप्_27.034अब्।
मण्डपं भूषयित्वाथ वितानघटलड्डुकैः(3)
मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं ।अप्_27.035अब्।
आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान्
सम्मोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् ।अप्_27.036अब्।
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां
सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत् क्रमात् ।अप्_27.037अब्।
तन्मात्रभूतां सकलां जीवेन समतां गतां
ततः सम्प्रार्थ्य कम्भेशं सूत्रं संहृत्य देशिकः ।अप्_27.038अब्।
:न्
1 मायासूत्रे सुशोभने इति ङ, चिह्नितपुस्तकपाठः
2 करालं कर्तरीञ्चापि इति ख, ग, चिह्नितपुस्तकद्वयपाठः
3 वितानभवगन्धकैर् इति ख, चिह्नितपुस्तकपाठः ।
वितानपटकेन्द्रियैर् इति ग, घ, चिह्नितपुस्तकद्वयपाठः
:प् 74
अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु
मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं ।अप्_27.039अब्।
उदासीनमथासाद्य पूर्णाहुत्या च देशिकः
शुक्लं रजः समादाय मूलेन शतमन्त्रितं ।अप्_27.040अब्।
सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः
वियोगपदसंयुक्तैर् वीजैः पदादिभिः क्रमात् ।अप्_27.041अब्।
पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः
वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।अप्_27.042अब्।
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः
ताडनेन वियोज्यैवं(1) आदायापाद्य शाम्यतां ।अप्_27.043अब्।
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि
गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा ।अप्_27.044अब्।
शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।अप्_27.045अब्।
सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात्
तत् परं ज्ञानयोगेन विलाप्य परमात्मनि ।अप्_27.046अब्।
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे
निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः ।अप्_27.047अब्।
दद्यात् पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते
प्रयोगमन्त्रान् वक्ष्यामि यैर् दीक्षा होमसंलयः ।अप्_27.048अब्।
ओं यं भूतानि विशुद्धं हुं फट्
अनेन ताडनं कुर्याद्वियोजनमिह द्वयं
ओं यं भूतान्यापातयेहं
आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु ।अप्_27.049अब्।
:न्
1 ताडनेन विमोक्ष्यैवमिति ख, चिह्नितपुस्तकपाठः
:प् 75
ओं यं भूतानि पुंश्चाहो
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं
ओं भूतानि संहर स्वाहा । ओं अं ओं नमो भगवते वासुदेवाय
वौषट्
पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्(1) ।अप्_27.050अब्।
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद् बुधः
नमोन्तेन स्ववीजेन ताडनादिपुरःसरम् ।अप्_27.051अब्।
ओं वां वर्मेन्द्रियाणि । ओं दें बुद्धीन्द्रियाणि
यं वीजेन समानन्तु ताडनादिप्रयोगकम्
ओं सुंगन्धतन्मात्रे वियुङ्क्ष्व हुं फट् । ओं सम्पाहिं
हा(2) ॥ ओं खं खं क्ष प्रकृत्या(3) । ओं सुं हुं
गन्धतन्मात्रे संहर स्वाहा
ततः पूर्णाहुतिश् चैवमुत्तरेषु प्रयुज्यते ।अप्_27.052अब्।
ओं रां रसतन्मात्रे । ओं भें रूपतन्मात्रे । ओं रं
स्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे । ओं भं नमः । ओं
सों अहङ्कारः । ओं नं बुद्धे । ओं ओं प्रकृते
एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः ।अप्_27.052च्द्।
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः
दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः ।अप्_27.053अब्।
अविकारे समादध्यादीश्वरे प्रकृतिन्नरः
शोधयित्वाथ भुतानि कर्माङ्गानि(4) विशोधयेत् ।अप्_27.054अब्।
बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं
लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत् पुनः ।अप्_27.055अब्।
:न्
1 तद्वै शिष्यन्तुसन्नयेदिति ख, घ, ङ,
चिह्नितपुस्तकत्रयपाठः
2 ओं सुं आयाहि हामिति ख,चिह्नितपुस्तकपाठः ओं सं पाहि
स्वाहा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
3 अं दुं स्त्व प्रकृत्या इति ओं खं खं स्त्व प्रकृत्या इति च ख,
चिह्नितपुस्तकपाठः
4 कर्माख्यानि च शोधयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 76
पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं
स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं ।अप्_27.056अब्।
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी
अङ्गैर् आराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं ।अप्_27.057अब्।
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं
ध्यायन् पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता ।अप्_27.058अब्।
द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि
इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं ।अप्_27.059अब्।
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः
भक्तो विनीतः शारीरैर् गुणैः सर्वैः समन्वितः ।अप्_27.060अब्।
शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्य दीक्षयेत्
अध्वानं निखिलं दैवं(2) भौतं वाध्यात्मिकी कृतं ।अप्_27.061अब्।
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः
अष्टाष्टाहुतिभिः पूर्वं क्रमात् सन्तर्प्य सृष्टिमान् ।अप्_27.062अब्।
स्वमन्त्रैर् वासुदेवादीन् जननादीन् विसर्जयेत्(2)
होमेन शोधयेत् पश्चात्संहारक्रमयोगतः ।अप्_27.063अब्।
योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः
शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् ।अप्_27.064अब्।
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैवके
शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्(3) ।अप्_27.065अब्।
शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान्
:न्
1 लिखितं दैवमिति ख, चिह्नितपुस्तकपाठः
2 पूजां कृत्वा विसर्जयेदिति घ, चिह्नितपुस्तकपाठः विमलादीन्
विसर्जयेदिति ङ, चिह्नितपुस्तकपाठः
3 पूर्णाहुत्या तु सन्नयेदिति ख, घ, चिह्नितपुस्तकद्वयपाठः
:प् 77
मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्(1) ।अप्_27.066अब्।
अथान्यान् शक्तिदीक्षां वा कुर्यात् भावे स्थितो गुरुः
भक्त्या सम्प्रातिपन्नानां यतीनां निर्धनस्य च ।अप्_27.067अब्।
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं
देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ।अप्_27.068अब्।
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर् विकल्पितं
शिष्यदेहे तथा देवमाधिदैविकयाचनं ।अप्_27.069अब्।
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना
क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ ।अप्_27.070अब्।
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः(2)
देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः ।अप्_27.071अब्।
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु
शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया ।अप्_27.072अब्।
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते
दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् ।अप्_27.073अब्।
निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः
एवमेवाधिकारस्थो गृही कर्मण्यतन्द्रितः ।अप्_27.074अब्।
आत्मानं शोधयंस्तिष्ठेद् यावद्रागक्षयो भवेत्
क्षीणरागमथात्मानं ज्ञात्वा संशुद्धिकिल्विषः ।अप्_27.075अब्।
आरोप्य पुत्रे शिष्ये वा ह्य् अधिकारन्तु संयमी
दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।अप्_27.076अब्।
शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0