अग्नि पुराण · अध्याय 268
:ए इत्य् आग्नेये महापुराणे नीराजनाविधिर्नाम
सप्तषष्ट्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 विशाखान्त्विति क.. , छ.. च
:प् 477
% छप्तेर् {268}
:श् अथाष्टषष्ट्यधिकद्विशततमो ऽध्यायः
छत्रादिमन्त्रादयः
पुष्कर उवाच
छत्रादिमन्त्रान्वक्ष्यामि यैस्तत् पूज्य जयादिकम् ।अप्_268.001अब्।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च
सूर्यस्य च प्रभावेन वर्धस्व त्वं महामते ।अप्_268.002अब्।
पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ
यथाम्बुदश्छादयते शिवायैनां वसुन्धरां ।अप्_268.003अब्।
तथाच्छादय राजानं विजयारोग्यवृद्धये
गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः ।अप्_268.004अब्।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च
प्रभावाच्च हुताशस्य वर्धस्व त्वं तुरङ्गम ।अप्_268.005अब्।
तेजसा चैव सूर्यस्य मुनीनां तपसा तथा
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।अप्_268.006अब्।
स्मर त्वं राजपुत्रो ऽसि कौस्तुभन्तु मणिं स्मर
यां गतिं ब्रह्महा गच्छेत् पितृहा मातृहा तथा ।अप्_268.007अब्।
भूम्यर्थे ऽनृतवादी च क्षत्रियश् च पराङ्मुखः
व्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव ।अप्_268.008अब्।
विकृतिं मापगच्छेस्त्वं युद्धे ऽध्वनि तुरङ्गम
रिपून् विनिघ्नन्समरे सह भर्त्रा सुखी भव ।अप्_268.009अब्।
शक्रकेतो महावीर्यः सुवर्णस्त्वामुपाश्रितः
पतत्रिराड्वैनतेयस् तथा नारायणध्वजः ।अप्_268.010अब्।
:प् 478
काश्यपेयो ऽमृताहर्ता नागारिर्विष्णुवाहनः
अप्रमेयो दुराधर्षो रणे देवारिसूदनः ।अप्_268.011अब्।
महाबलो मावेगो महाकायो ऽमृताशनः
गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः ।अप्_268.012अब्।
विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्य् असि
जयाय भव मे नित्यं वृद्धये ऽथ बलस्य च ।अप्_268.013अब्।
साश्ववर्मायुधान्योधान्रक्षास्माकं रिपून्दह
कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः ।अप्_268.014अब्।
सुप्रतीको ऽञ्जनो नील एते ऽष्टौ देवयोनयः
तेषां पुत्राश् च पौत्राश् च बलान्यष्टौ समाश्रिताः ।अप्_268.015अब्।
भद्रो मन्दो मृगश् चैव गजः संकीर्ण एव च
वने वने प्रसूतास्ते स्मरयोनिं महागजाः ।अप्_268.016अब्।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः
भर्तारं रक्ष नागेन्द्र समयः परिपाल्यतां ।अप्_268.017अब्।
ऐरावताधिरूढस्तु वज्रहस्तः शतक्रतुः
पृष्ठतो ऽनुगतस्त्वेष रक्षतु त्वां स देवराट् ।अप्_268.018अब्।
अवाप्नुहि जयं युद्धे सुस्थश् चैव सदा व्रज
अवाप्नुहि बलञ्चैव ऐरावतसमं युधि ।अप्_268.019अब्।
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवो ऽनिलात्
स्थैर्यं गिरेर्जयं रुद्राद्यशो देवात् पुरन्दरात् ।अप्_268.020अब्।
युद्धे रक्षन्तु नागास्त्वां दिशश् च सह दैवतैः
अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतो दिशः ।अप्_268.021अब्।
मन्वो वसवो रुद्रा वायुः सोमो महर्षयः
:प् 479
नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः ।अप्_268.022अब्।
प्रमथास्तु सहादित्यैर् भूतेशो मातृभिः सह
शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ।अप्_268.023अब्।
प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु
यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः ।अप्_268.024अब्।
पतन्तु तव शत्रूणां हतानि तव तेजसा
कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने ।अप्_268.025अब्।
हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च
शोभितासि तथैवाद्य शोभस्व समयं स्मर ।अप्_268.026अब्।
नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः
व्याधिभिर्विविधैर् घोरैः शस्त्रैश् च युधि निर्जिताः ।अप्_268.027अब्।
पूतना रेवती लेखा कालरात्रीति पठ्यते
दहन्त्वाशु रिपून् सर्वान्पताके त्वामुपाश्रिताः ।अप्_268.028अब्।
सर्वमेधे महायज्ञे देवदेवेन शूलिना
शर्वेण जगतश् चैव सारेण त्वं विनिर्मितः ।अप्_268.029अब्।
नन्दकस्यापरां मूर्तिं स्मर शत्रुनिवर्हण
नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन ।अप्_268.030अब्।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः
औगर्भो विजयश् चैव धर्मपालस्तथैव च ।अप्_268.031अब्।
इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।अप्_268.032अब्।
हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः
राजानं रक्ष निस्त्रिंश सबलं सपुरन्तथा ।अप्_268.033अब्।
:प् 480
पिता पितामहो देवः स त्वं पालय सर्वदा
शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशो ऽद्य मे ।अप्_268.034अब्।
रक्ष मां रक्षणीयो ऽहन्तवानघ नमो ऽस्तु ते
दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः ।अप्_268.035अब्।
भव भूमिसैन्यानां यथा विजयवर्धनः
यथा जीमूतघोषेण हृष्यन्ति वरवारणाः ।अप्_268.036अब्।
तथास्तु तव शब्देन हर्षो ऽस्माकं मुदावह
यथा जीमूतशब्देन स्त्रीणां त्रासो ऽभिजायते ।अप्_268.037अब्।
तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे
मन्त्रैः सदार्चनीयास्ते योजनीया जयादिषु ।अप्_268.038अब्।
घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे
राज्ञो ऽभिषेकः कर्तव्यो दैवज्ञेन पुरोधसा ॥39
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0