भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 267

267.001

:ए इत्य् आग्नेये महापुराणे महेश्वरस्नानलक्षकोटिहोमादयो नाम
षट्षष्ट्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {267}
:श् अथ सप्तषष्ट्यधिकद्विशततमो ऽध्यायः
नीराजनविधिः
पुष्कर उवाच
कर्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।अप्_267.001अब्।
मासि मासि च संक्रान्तौ सूर्यसोमादिदेवताः

267.002

:प् 474
अगस्त्यस्योदये ऽगस्त्यञ्चातुर्मास्यं हरिं यजेत् ।अप्_267.002अब्।
शयनोत्थापने पञ्चदिनं कुर्यात्समुत्सवम्

267.003

प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।अप्_267.003अब्।
शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत्

267.004

तत्र शक्रध्वजं स्थाप्य शची शक्रञ्च पूजयेत् ।अप्_267.004अब्।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत्

267.005

एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।अप्_267.005अब्।
यजेद्वस्त्रादिसंवीतं घटस्थं(1) सुरपं शचीं

267.006

वर्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।अप्_267.006अब्।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः

267.007

त्वं प्रभुः शाश्वतश् चैव सर्वभूतहिते रतः ।अप्_267.007अब्।
अनन्ततेजा वै राजो यशोजयविवर्धनः

267.008

तेजस्ते वर्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् ।अप्_267.008अब्।
ब्रह्मविष्णुमहेशाश् च कार्त्तिकेयो विनायकः

267.009

आदित्या वसवो रुद्राः साध्याश् च भृगवो दिशः ।अप्_267.009अब्।
मरुद्गुणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः

267.010

समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।अप्_267.010अब्।
प्रवर्तयन्तु ते तेजो जय शक्र शचीपते

267.011

तव चापि जयान्नित्यं मम सम्पठ्यतां शुभं ।अप्_267.011अब्।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः

267.012

भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।अप्_267.012अब्।
शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशं

267.013

:न्
1 पटस्थमिति क.. , ग.. , छ.. , ज.. , ट.. च
:प् 475
मन्त्रेणेन्द्रं समभ्यर्च्य जितभूः स्वर्गमाप्नुयात् ।अप्_267.013अब्।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये

267.014

शुक्लपक्षे तथाष्टम्यामायुधं कार्मुकं ध्वजम् ।अप्_267.014अब्।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः

267.015

जाग्रन्निशि बलिन्दद्याद्द्वितीये ऽह्नि पुनर्यजेत् ।अप्_267.015अब्।
भद्रकालि महाकालि दुर्गे दुर्गार्तिहारिणि

267.016

त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।अप्_267.016अब्।
नीराजनविधिं वक्ष्ये ऐशान्यान्मन्दिरं चरेत्

267.017

तोरणत्रितयं तत्र गृहे देवान्यजेत् सदा ।अप्_267.017अब्।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते

267.018

ततः प्रभृति कर्तव्यं यावत् स्वातौ रविः स्थितः ।अप्_267.018अब्।
ब्रह्मा विष्णुश् च शम्भुश् च शक्रश् चैवानलानिलौ

267.019

विनायकः कुमारश् च वरुणो धनदो यमः ।अप्_267.019अब्।
विश्वेदेवा वैश्रवसो गजाश्चाष्टौ च तान्यजेत्

267.020

कुमुदैरावणौ पद्मः पुष्पदन्तश् च वामनः ।अप्_267.020अब्।
सुप्रतीको ऽञ्जनो नीलः पूजा कार्या गृहादिके

267.021

पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।अप्_267.021अब्।
कुम्भा अष्टौ पूजिताश् च तैः स्नाप्याश्वगजोत्तमाः

267.022

अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।अप्_267.022अब्।
निष्क्रामयेत्तोरणैस्तु गोपुरादि(1) न लङ्घयेत्

267.023

विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।अप्_267.023अब्।
:न्
1 शेखरादीति क..
:प् 476
वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत्

267.024

विशाखायां(1) गते सूर्ये आश्रमे निवसेन्नृपः ।अप्_267.024अब्।
अलङ्कुर्याद्दिने तस्मिन् वाहनन्तु विशेषतः

267.025

पूजिता राजलिङ्गाश् च कर्तव्या नरहस्तगाः ।अप्_267.025अब्।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम्

267.026

ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ।अप्_267.026अब्।
अभिमन्त्र्य ततः सर्वान् कुर्यात् कुञ्जरधूर्गतान्

267.027

कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।अप्_267.027अब्।
मन्त्रितांश् च समारुह्य तोरणेन विनिर्गमेत्

267.028

निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।अप्_267.028अब्।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः

267.029

उन्मूकानान्तु निचयमादीपितदिगन्तरं ।अप्_267.029अब्।
राजा प्रदक्षिणं कुर्यात्त्रीन् वारान् सुसमाहितः

267.030

चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।अप्_267.030अब्।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः

267.031

शान्तिर् नीराजनाख्येयं वृद्धये रिपुमर्दनी

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc