अग्नि पुराण · अध्याय 266
:ए इत्य् आग्नेये महापुराणे विनायकस्नानं नाम
पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 वषट्कारसमन्वितैर् इति घ.. , ज.. , ञ.. , ट.. च
:प् 471
% छप्तेर् {266}
:श् अथ षट्षष्ठ्यधिकद्विशततमो ऽध्यायः
माहेश्वरस्नानलक्षकोटिहोमादयः
पुष्कर उवाच
स्नानं माहेश्वरं वक्ष्ये राजादेर्जयवर्धनम् ।अप्_266.001अब्।
दानवेन्द्राय बलये यज्जगादोशनाः पुरा
भास्करे ऽनुदिते पीठे प्रातः संस्नापयेद् घटैः ।अप्_266.002अब्।
ओं नमो भगवते रुद्राय च बलाय च
पाण्डरोचितभस्मानुलिप्तगात्राय । तद्यथा जय जय सर्वान्
शत्रून्मूकस्य कलहविग्रहविवादेषु भञ्जय । ओं मथ मथ
सर्वपथिकान्योसौ युगान्तकाले दिधक्षति इमां पूजां
रौद्रमूर्तिः सहस्रांशुः शुक्रः स ते रक्षतु जीवितं ।
सम्बर्तकाग्नितुल्यश् च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि
तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ॥
एवं स्नतस्तु मन्त्रेण जुहुयात्तिलतण्डुलम्
पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं ।अप्_266.003अब्।
स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते
स्नानं घृतेन कथितमायुष्यवर्धनं परम् ।अप्_266.004अब्।
गोमयेन च लक्ष्मीः स्याद्गोमूत्रेणाघमर्दनम्
क्षीरेण बलबुद्धिः स्याद्दध्ना लक्ष्मीविवर्धनं ।अप्_266.005अब्।
कुशोदकेन पापान्तः पञ्चगव्येन सर्वभाक्
शतमूलेन सर्वाप्तिर्गोशृङ्गोदकतो ऽघजित् ।अप्_266.006अब्।
:प् 472
पलाशबिल्वकमलकुशस्नानन्तु सर्वदं
वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं ।अप्_266.007अब्।
आयुष्यञ्च यशस्यञ्च धर्ममेधाविवर्धनम्
हैमाद्भिश् चैव माङ्गल्यं रूप्यताम्रोदकैस् तथा ।अप्_266.008अब्।
रत्नोदकैस्तु विजयः सौभाग्यं सर्वगन्धकैः
फलाद्भिश् च तथारोग्यं धात्र्यद्भिः परमां श्रियम् ।अप्_266.009अब्।
तिलसिद्धार्थकैर् लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा
पद्मोत्पलकदम्बैश् च श्रीर्बलं बलाद्रुमोदकैः ।अप्_266.010अब्।
विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम्
एकाकी एककामायेत्येकोर्कं(1) विधिवच्चरेत् ।अप्_266.011अब्।
अक्रन्दयतिसूक्तेन प्रबध्नीयान्मणिं करे
कुष्ठपाठा वाचा शुण्ठी शङ्खलोहादिको मणिः ।अप्_266.012अब्।
सर्वेषामेवकामानामीश्वरो भगवान् हरिः
तस्य संपूजनादेव सर्वान्कामान्समश्नुते ।अप्_266.013अब्।
स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा
पञ्चमुद्गबलिन्दत्वा अतिसारात् प्रमुच्यते ।अप्_266.014अब्।
पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत्
द्विस्नेहस्नपनात् श्लेष्मरोगहा चातिपूजया ।अप्_266.015अब्।
घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं
स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् ।अप्_266.016अब्।
क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम्
घृतमिशुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये ।अप्_266.017अब्।
:न्
1 यवकामायेत्येकोर्कमिति क.. , छ.. च
:प् 473
अनुलेपस्त्रिशुक्रस्तु कर्पूरोशीरचन्दनैः
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ।अप्_266.018अब्।
पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं
त्रिसुगन्धञ्च कर्पूरं तथा चन्दनकुङ्कुमैः ।अप्_266.019अब्।
मृगदर्पं सकर्पूरं मलयं सर्वकामदम्
जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् ।अप्_266.020अब्।
पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव
कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्दिशेत् ।अप्_266.021अब्।
उत्पलं पद्मजाती च त्रिशीतं हरिपूजने
कुङ्कुमं रक्तपद्मानि त्रिरक्तमुत्पलं ।अप्_266.022अब्।
धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां
चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट शोडश ।अप्_266.023अब्।
लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः
ग्रहानभ्यर्च्य गायत्र्या सर्वशान्तिः क्रमाद्भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0