अग्नि पुराण · अध्याय 265
:ए इत्य् आग्नेये महापुराणे दिक्पालादिस्नानं नाम
चतुःषष्ठ्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {265}
:श् अथ पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः
विनायकस्नानं
पुष्कर उवाच
विनायकोपसृष्टानां स्नानं सर्वकरं वदे ।अप्_265.001अब्।
विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः
गणानामाधिपत्ये च केशवेशपितामहैः ।अप्_265.002अब्।
स्वप्नेवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति
:प् 469
विनायकोपसृष्टस्तु क्रव्यादानधिरोहति ।अप्_265.003अब्।
व्रजमानस् तथात्मानं मन्यते ऽनुगतम्परैः
विमना विफलारम्भः संसीदत्यनिमित्ततः ।अप्_265.004अब्।
कन्या वरं न चाप्नोति न चापत्यं वराङ्गना
आचार्यत्वं श्रोत्रियश् च न शिष्यो ऽध्ययनं लभेत् ।अप्_265.005अब्।
धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः
राजा राज्यं न चाप्नोति स्नपनन्तस्य कारयेत् ।अप्_265.006अब्।
हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके(1)
गौरसर्षपकल्केन साज्येनोत्सादितस्य च(2) ।अप्_265.007अब्।
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस् तथा
चतुर्भिः कलसैः स्नानन्तेषु सर्वौषाधौ क्षिपेत् ।अप्_265.008अब्।
अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात्
मृत्तिकां रोचनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् ।अप्_265.009अब्।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम्
तेन त्वामभिषिञ्चामि पावमान्यः(3) पुनन्तु ते ।अप्_265.010अब्।
भगवन्ते वरुणो राजा भगं सूर्यो वृहस्पतिः
भगमिन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ।अप्_265.011अब्।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ।अप्_265.012अब्।
दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः
:न्
1 हस्तपुष्याश्वयुक्सौम्यवैष्णवेषु शुभेषु चेति घ.. , ञ..
च
2 साज्येनासादितस्य चेति क.. , छ.. च
3 इमा आप इति छ.. , ञ..
:प् 470
स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च ।अप्_265.013अब्।
जुहुयान्मूर्धनि कुशान् सव्येन परिगृह्य च
मितश् च सम्मितश् चैव तथा शालककण्टकौ ।अप्_265.014अब्।
कुष्माण्डो राजपुत्रश् च एतैः स्वाहासमन्वितैः
नामभिर्बलिमन्त्रैश् च नमस्कारसमन्वितैः(1) ।अप्_265.015अब्।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः
कृताकृतांस्तण्डुलांश् च पललौदनमेव च ।अप्_265.016अब्।
मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा
मूलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः ।अप्_265.017अब्।
दध्यन्नं पायसं पिष्टं मोदकं गुडमर्पयेत्
विनायकस्य जननीमुपतिष्ठेत्ततो ऽम्बिकां ।अप्_265.018अब्।
दूर्वासर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिं
रूपं देहि यशो देहि सौभाग्यं सुभगे मम ।अप्_265.019अब्।
पुत्रं देहि धनं देहि सर्वान् कामांश् च देहि मे
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।अप्_265.020अब्।
विनायकं ग्रहान्प्रार्च्य श्रियं कर्मफलं लभेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0