भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 233

233.001

जिगीषुर्धर्मविजयी तथा लोकं वशन्नयेत् ।अप्_232.026अब्।
:ए इत्य् आग्नेये महाओपुराणे यात्रामण्डलचिन्तादिर्नाम
द्वात्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {233}
:श् अथ त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः
षाड्गुण्यं
पुष्कर उवाच
सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च ।अप्_233.001अब्।
दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते

233.002

:न्
1 शत्रुं जिहीर्षुरुच्छिन्द्यादिति घ.. , ञ.. च
:प् 345
प्रकाशश्चाप्रकाशश् च द्विविधो दण्ड उच्यते ।अप्_233.002अब्।
लुण्ठनं ग्रामघातश् च शस्यघातो ऽग्निदीपनं

233.003

प्रकाशो ऽथ विषं वह्निर्विविधैः पुरुषैर् बधः ।अप्_233.003अब्।
दूषणञ्चैव साधूनामुदकानाञ्च दूषणं

233.004

दण्डप्रणयणं प्रोक्तमुपेक्षां शृणु भार्गव ।अप्_233.004अब्।
यदा मन्यते नृपती रणे न मम विग्रहः

233.005

अनर्थायानुबन्धः स्यात् सन्धिना च तथा भवेत् ।अप्_233.005अब्।
सामलब्धास्पदञ्चात्र दानञ्चार्थक्षयङ्करं

233.006

भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ।अप्_233.006अब्।
न चायं मम शक्नोति किञ्चित् कर्तुमुपद्रवं

233.007

न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् ।अप्_233.007अब्।
अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत्

233.008

मायोपायं प्रवक्ष्यामि उत्पातैर् अनृतैश् चरत् ।अप्_233.008अब्।
शत्रोरुद्वेजनं शत्रोः शिविरस्थस्य पक्षिणः

233.009

स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ।अप्_233.009अब्।
विसृजेच्च ततश् चैवमुल्कापातं प्रदर्शयेत्

233.010

एवमन्ये दर्शनीया उत्पाता बहवो ऽपि च ।अप्_233.010अब्।
उद्वेजनं तथा कुर्यात् कुहकैर् विविधैर् द्विषां

233.011

सांवत्सरास्तापसाश् च नाशं ब्रूयुः प्ररस्य च ।अप्_233.011अब्।
जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत् परान्

233.012

देवतानां प्रसादश् च कीर्तनीयः परस्य तु ।अप्_233.012अब्।
आगतन्नो ऽमित्रबलं प्रहरध्वमभीतवत्

233.013

एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति ।अप्_233.013अब्।
:प् 346
क्ष्वेडाः किलकिलाः कार्या वाच्यः शत्रुर्हतस् तथा

233.014

देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति ।अप्_233.014अब्।
इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत्

233.015

चतुरङ्गं बलं राजा सहायार्थं दिवौकसां ।अप्_233.015अब्।
बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चेन्द्रपौ

233.016

छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत्(1) ।अप्_233.016अब्।
षाड्गुण्यं सम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ

233.017

सन्धिश् च विग्रहश् चैव यानमासनमेव च ।अप्_233.017अब्।
द्वैधीभावः संशयश् च षड्गुणाः परिकीर्तिताः

233.018

पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः ।अप्_233.018अब्।
जिगीषोः शत्रुविषये यानं यात्राभिधीयते

233.019

विग्रहेण स्वके देशे स्थितिरासनमुच्यते ।अप्_233.019अब्।
बलार्धेन प्रयाणन्तु द्वैधीभावः स उच्यते

233.020

उदासीनो मध्यगो वा संश्रयात्संशयः स्मृतः ।अप्_233.020अब्।
समेन सन्धिरन्वेष्यो ऽहीनेन च बलीयसा

233.021

हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।अप्_233.021अब्।
तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत्

233.022

आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपोर्यदा ।अप्_233.022अब्।
अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः

233.023

अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् ।अप्_233.023अब्।
बलिना विगृहीतस्तु(2) यो ऽसन्देहेन पार्थिवः

233.024

संश्रयस्तेन वक्तव्यो गुणानामधमो गुणः ।अप्_233.024अब्।
:न्
1 प्रासादाग्रे प्रदर्शयेदिति ट..
2 विगृहीतस्तु इति ख..
:प् 347
बहुक्षयव्ययायासं(1) तेषां यानं प्रकीर्तितं

233.025

बहुलाभकरं पश्चात्तदा राजा समाश्रयेत्(2) ।अप्_233.025अब्।
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc