भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 229

229.001

:ए इत्य् आग्नेये महापुराणे स्वप्नाध्यायी नाम
अष्टाविंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {229}
:श् अथ एकोनत्रिंशदधिकद्विशततमो ऽध्यायः
शकुनानि
पुष्कर उवाच
औषधानि च युक्तानि धान्यं कृष्णमशोभनं ।अप्_229.001अब्।
कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च

229.002

:प् 333
अङ्गारं गुडसर्जौ च(1) मुण्डाभ्यक्तञ्च नग्नकं ।अप्_229.002अब्।
अयः पङ्कं चर्मकेशौ उन्मत्तञ्च नपुंसकं

229.003

चण्डालश्वपचाद्यानि नरा बन्धनपालकाः ।अप्_229.003अब्।
गर्भिणी स्त्री च विधवाः पिण्यकादीनि वै मृतं

229.004

तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं ।अप्_229.004अब्।
अशस्तो वाद्यशब्दश् च भिन्नभैरवझर्झरः

229.005

एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः ।अप्_229.005अब्।
गच्छेति पश्चाच्छब्दो ऽग्र्यः पुरस्तात्तु विगर्हितः

229.006

क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च ।अप्_229.006अब्।
अनिष्टशब्दा मृत्यर्थं क्रव्यादश् च ध्वजादिगः

229.007

स्खलनं वाहनानाञ्च शस्त्रभङ्गस्तथैव च ।अप्_229.007अब्।
शिरोघातश् च द्वाराद्यैश्च्छत्रवासादिपातनं

229.008

हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं ।अप्_229.008अब्।
द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद्गृहं

229.009

श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः ।अप्_229.009अब्।
मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः

229.010

गावस्तरङ्गमा नागा देवश् च ज्वलितो ऽनलः ।अप्_229.010अब्।
दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं

229.011

वचासिद्धार्थकौषध्यो मुद्ग आयुधखड्गकं ।अप्_229.011अब्।
छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं

229.012

फलं घृटं दधि पयो अक्षतादर्शमाक्षिकं ।अप्_229.012अब्।
शङ्खं इक्षुः शुभं वाक्यं भक्तवादितगीतकं

229.013

:न्
1 गुडसर्पौ चेति ग.. , घ.. , ञ.. च
:प् 334
गम्भीरमेघस्तनितं तडित्तुष्टिश् च मानसी ।अप्_229.013अब्।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc