अग्नि पुराण · अध्याय 228
विपर्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।अप्_227.009अब्।
:ए इत्य् आग्नेये महापुराणे यात्रा नाम सप्तविंशत्यधिकद्विशततमो
ऽध्यायः ॥
% छप्तेर् {228}
:श् अथाष्टाविंशत्यधिकशततमो ऽध्यायः
स्वप्नाध्यायः
पुष्कर उवाच
स्वप्नं शौभाशुभं वक्ष्ये दुःखप्रहरणन्तथा ।अप्_228.001अब्।
नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः
चूर्णं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।अप्_228.002अब्।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च ।अप्_228.003अब्।
तन्त्रीवाद्यविनोदश् च दोलारोहणमेव च
अर्जनं पद्मलोहानां सर्पाणामथ मारणं ।अप्_228.004अब्।
:न्
1 शरद्यश्चेति ञ.. , ट.. च
:प् 330
रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च
वराहाश्वखरोष्ट्राणां तथा चारोहणक्रिया ।अप्_228.005अब्।
भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च(1)
मातुः प्रवेशो जठरे चितारोहणमेव च ।अप्_228.006अब्।
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं ।अप्_228.007अब्।
देवद्विजातिभूपानां गुरूणाङ्कोप एव च
नर्तनं हसनञ्चैव विवाहो गीतमेव च(2) ।अप्_228.008अब्।
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं
स्रोतोवहाधोगमनं स्नानं गोमयवारिणा ।अप्_228.009अब्।
पङ्कोदकेन च तथा मशीतोयेन वाप्यथ
आलिङ्गनं कुमारीणां पुरुषाञ्च मैथुनं(3) ।अप्_228.010अब्।
हानिश् चैव स्वगात्राणां विरेको वमनक्रिया
दक्षिणाशाप्रगमनं व्याधिनाभिभवस् तथा ।अप्_228.011अब्।
फलानामुपहानिश् च धातूनां भेदनं तथा
गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा ।अप्_228.012अब्।
क्रीडा पिशाचक्रव्यादवानरान्त्यनरैर् अपि
परादभिभवश् चैव तस्माच्च व्यसनोद्भवः ।अप्_228.013अब्।
काषायवस्त्रधारित्वं तद्वस्त्रैः क्रीडनं तथा(4)
:न्
1 तन्त्रीवाद्यविनोदश्चेत्यादिः, तैलस्य कृशरस्य चेत्यन्तः
पाठः छ.. , झ.. पुस्तकद्वये नास्ति
2 विवाहोत्सव एव चेति ज..
3 तासामेव च मैथुनमिति ज..
4 हानिश् चैवेत्यादिः. क्रीडनं तथेत्यन्तः पाठः ज.. पुस्तके
नास्ति
:प् 331
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनं ।अप्_228.014अब्।
इत्यधान्यानि स्वप्नानि तेषामकथनं शुभं
भूजश् च स्वपनं तद्वत् कार्यां स्नानं द्विजार्चनं ।अप्_228.015अब्।
तिलैर् होमो हरिब्रह्मशिवार्कगणपूजनं
तथा स्तुतिप्रपठनं पुंसूक्तादिजपस् तथा ।अप्_228.016अब्।
स्वप्नास्तु प्रथमे यामे(1) संवत्सरविपाकिनः
षड्भिर्मासैर् द्वितीये तु त्रिभिर्मासैर् त्रियामिकाः ।अप्_228.017अब्।
चतुर्थे त्वर्धमासेन दशाहादरुणोदये
एकस्यामथ चेद्रात्रौ शुभं वा यदि वाशुभं ।अप्_228.018अब्।
पश्चादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत्
तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते ।अप्_228.019अब्।
शैलप्रासादनागाश्ववृषभारोहणं हितं
द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज ।अप्_228.020अब्।
द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता
तथा च बहुशीर्षत्वं पलितोद्भव एव च ।अप्_228.021अब्।
सुशुक्रमाल्यधारित्वं सुशुक्लाम्बरधारिता
चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।अप्_228.022अब्।
शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा
भूम्यबुधाराग्रहणं(2) शत्रूणाञ्चैव विक्रिया ।अप्_228.023अब्।
जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज
भक्षणञ्चार्द्रमांसानाम्पायसस्य च भक्षणं ।अप्_228.024अब्।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च
:न्
1 प्रथमे भागे इति ख..
2 भूम्यम्बुधीनां ग्रहणमिति क.. , छ.. , ञ.. च
:प् 332
सरारुधिरमद्यानां पानं क्षीरस्य वाप्यथ ।अप्_228.025अब्।
अस्त्रैर् विचेष्टनं भूमौ निर्मलं गगनं तथा
मुखेन दोहनं शस्तं महिषीणां तथा गवां ।अप्_228.026अब्।
सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च
प्रसादो देवविप्रेभ्यो गुरुभ्यश् च तथा द्विज ।अप्_228.027अब्।
अम्भसा चाभिषेकस्तु गवां शृङ्गच्युतेन च
चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राज्यप्रदं हि तत् ।अप्_228.028अब्।
राज्याभिषेकश् च तथा छेदनं शिरसो ऽप्यथ
मरणं वह्निलाभश् च वह्निदाहो गृहादिषु ।अप्_228.029अब्।
लब्धेश् च राजलिङ्गानां तन्त्रीवाद्याभिवादनं
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं ।अप्_228.030अब्।
हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्धते
वृषेभगृहशैलाग्रवृक्षारोहणरोदनं ।अप्_228.031अब्।
घृटविष्ठानुलेपो वा अगम्यागमनं तथा
सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभो ऽमलं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0