अग्नि पुराण · अध्याय 207
:ए इत्य् आग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम
षडधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {207}
:श् अथ सप्ताधिकद्विशततमो ऽध्यायः
कौमुदव्रतं
अग्निर् उवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।अप्_207.001अब्।
हरिं यजेत् मासमेकमेकादश्यामुपोषितः
आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।अप्_207.002अब्।
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।अप्_207.003अब्।
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः
कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।अप्_207.004अब्।
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः
ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् ।अप्_207.005अब्।
:प् 252
भोजनादि(1) द्विजे दद्याद्यावद् देवः प्रबुद्ध्यते
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0