अग्नि पुराण · अध्याय 206
:ए इत्य् आग्नेये महापुराणे भीष्मपञ्चकं नाम
पञ्चाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {206}
:श् अथ षडधिकद्विशततमो ऽध्यायः
अगस्त्यार्घ्यदानकथनं
अग्निर् उवाच
अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं ।अप्_206.001अब्।
अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्दिनैः
:न्
1 हरिं लेभे तेनैतदिति ग.. । हरिं प्राप तेनैतदिति ङ.. । हरिं
प्राप्तस्तेनैतदिति ज.. , ट.. च
2 पूजनात्पञ्च उपवासादजव्रतमिति ग.. , घ.. , ङ.. , ज.. , ञ.. , ड..
च
:प् 249
अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्य् उपोषितः ।अप्_206.002अब्।
काशपुष्पमयीं मूर्तिं प्रदोषे विन्यसेद् घटे
मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्यात् प्रजागरं ।अप्_206.003अब्।
अगस्त्य मिनिशार्दूल तेजोराशे महामते(1)
इमां मम कृतां पूजां गृह्णीष्व प्रियया सह ।अप्_206.004अब्।
आवाह्यार्घ्ये च सम्मुख्यं प्रार्चयेच्चन्दनादिना
जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् ।अप्_206.005अब्।
काशपुष्पप्रतीकाश अग्निमारुतसम्भव(2)
मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते ।अप्_206.006अब्।
आतापिर्भक्षितो येन वातापिश् च महासुरः
समुद्रः शोषितो येन सो ऽगस्त्यः सम्मुखो ऽस्तु मे ।अप्_206.007अब्।
अगस्तिं प्रार्थयिष्यामि कर्मणा मनसा गिरा
अर्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया ।अप्_206.008अब्।
द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं
राजानं सर्ववृक्षाणां चन्दनं प्रतिगृह्यतां(3) ।अप्_206.009अब्।
धर्मार्थकाममोक्षाणां भाजनी पापनाशनी
सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां ।अप्_206.010अब्।
धूपो ऽयं गृह्यतां देव भक्तिं मे ह्य् अचलाङ्कुरु
ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं ।अप्_206.011अब्।
सुरासुरैर्मुनिश्रेष्ठ सर्वकामफलप्रद
:न्
1 तेजोराशे महाद्युते इति ग.. , घ.. , छ.. , ज.. , झ.. , ञ.. , ट.. च ।
तेजोराशे जगत्पते इति ङ..
2 वह्निमारुतसम्भवेति झ..
3 चन्दनं मे प्रगृह्यनामिति ज.. , ञ.. च
:प् 250
वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्य् अयं(1) मया ।अप्_206.012अब्।
अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं(2)
फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने ।अप्_206.013अब्।
अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यंबलमीहमानः ।अप्_206.013च्द्।
उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषोजगाम
राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते ।अप्_206.014अब्।
अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि
पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं ।अप्_206.015अब्।
सप्तधान्यवृतं(3) पात्रं दधिचन्दनसंयुतं
अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं ।अप्_206.016अब्।
अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद
इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये ।अप्_206.017अब्।
त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं
ततो ऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् ।अप्_206.018अब्।
गां वासांसि सुवर्णञ्च(4) तेभ्यो दद्याच्च दक्षिणां
घृतपायसयुक्तेन पात्रेणाच्छादिताननं ।अप्_206.019अब्।
सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत्(5)
:न्
1 दत्तस्त्वर्घ्यो ऽक्षय इति ङ..
2 मनसेप्सितमिति ग.. , घ.. , झ.. च । मनसेहितमिति ङ..
3 सप्तधान्ययुतमिति ज..
4 प्रतिमाञ्च सुवर्णञ्चेति क..
5 ब्राह्मणायोपपादयेदिति घ.. , ङ.. , ज.. , ञ.. च
:प् 251
सप्तवर्षाणि दत्वार्घ्यं सर्वे सर्वमवाप्नुयुः ।अप्_206.020अब्।
नीरा पुत्रांश् च सौभाग्यं पतिं कन्या नृपोद्भवं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0