भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 205

205.001

:ए इत्य् आग्नेये महापुराणे मासोपवासव्रतं नाम
चतुरधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {205}
:श् अथ पञ्चाधिकद्विशततमो ऽध्यायः
भीष्मपञ्चकव्रतं
अग्निर् उवाच
भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं ।अप्_205.001अब्।
कार्त्तिकस्यामले पक्षे एकादश्यां समचरेत्

205.002

दिनानि पञ्चत्रिःस्नाती पञ्चव्रीहितिलैस् तथा(1) ।अप्_205.002अब्।
तर्पयेद्देवपित्रादीन् मौनी सम्पूजयेद्धरिं

205.003

पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च ।अप्_205.003अब्।
चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत्

205.004

दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं ।अप्_205.004अब्।
ओं नमो वासुदेवाय जपेदष्टोत्तरं शतं

205.005

:न्
1 यवव्रीहितिलैस्तथेति घ.. , ङ.. , छ.. , ज.. च
:प् 248
जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती ।अप्_205.005अब्।
षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च

205.006

कमलैः पूजयेत् पादौ द्वितीये बिल्वपत्रकैः ।अप्_205.006अब्।
जानु सक्थि तृतीये ऽथ नाभिं भृङ्गरजेन तु

205.007

वाणबिल्वजवाभिस्तु चतुर्थे पञ्चमे ऽहनि ।अप्_205.007अब्।
मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं

205.008

गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं ।अप्_205.008अब्।
पौर्णमास्याञ्चरेन्नक्तं भुक्तिं मुक्तिं लभेद्व्रती

205.009

भीष्मः कृत्वा हरिं प्राप्तस्तेनैव(1) भीष्मपञ्चकं ।अप्_205.009अब्।
ब्राह्मणः पूजनाद्यैश् च उपवासादिकं व्रतं(2)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc