भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 204

204.001

एकादशीव्रतकरो भीष्मपञ्चकसद् व्रती ।अप्_203.024अब्।
:ए इत्य् आग्नेये महापुराणे नरकस्वरूपवर्णनं नाम
त्र्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 क्षारकूपे इति ख.. , छ.. च
2 महाप्रेते तु भेदन इति ख.. , ग.. , घ.. , ड.. , छ.. , ज.. च
:प् 245
% छप्तेर् {204}
:श् अथ चतुरधिकद्विशततमो ऽध्यायः
मासोपवासव्रतं
अग्निर् उवाच
व्रतं मासोपवासञ्च(1) सर्वोत्कृष्टं वदामि ते ।अप्_204.001अब्।
कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च

204.002

कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्यान् मासोपवासकं ।अप्_204.002अब्।
वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने

204.003

आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।अप्_204.003अब्।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु

204.004

अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव ।अप्_204.004अब्।
अर्चयेत्वामनश्नन् हि यावत् त्रिंशद्दिनानि तु

204.005

कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव ।अप्_204.005अब्।
म्रिये यद्यन्तराले ऽहं व्रतभङ्गो न मे भवेत्

204.006

त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः ।अप्_204.006अब्।
विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्याद् व्रती नरः

204.007

वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत्(2) ।अप्_204.007अब्।
नाव्रतस्थं स्पृशेत् कञ्चिद्विकर्मस्थान्न चालयेत्

204.008

:न्
1 व्रतं मासोपवासाख्यमिति घ.. , ज.. च
2 अन्नाकाङ्क्षां विवर्जयेदिति घ.. , ङ.. च
:प् 246
देवतायतने तिष्ठेद्यावत् त्रिंशद्दिनानि तु ।अप्_204.008अब्।
द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती

204.009

समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् ।अप्_204.009अब्।
भुक्तिमुक्तिमवाप्नोति कल्पांश् चैव त्रयोदश

204.010

कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश ।अप्_204.010अब्।
तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च

204.011

छत्राणि सपवित्राणि तथोपानद्युगानि च(1) ।अप्_204.011अब्।
योगपट्टोपवीतानि दद्याद्विप्राय तैर्मतः(2)

204.012

अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च ।अप्_204.012अब्।
आत्मनश् च तथामूर्तिं वस्त्राद्यैश् च प्रपूजयेत्

204.013

सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः ।अप्_204.013अब्।
विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं

204.014

व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं ।अप्_204.014अब्।
विमानेनामलस्तत्र तिष्ठेद् विष्णुस्वरूपधृक्

204.015

द्विजानुक्त्वाथ(3) तां शय्यां गुरवे ऽथ निवेदयेत् ।अप्_204.015अब्।
कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद् व्रती

204.016

मासोपवासी यद्देशे स देशो निर्मलो भवेत् ।अप्_204.016अब्।
किं पुनस्तत्कुलं सर्वं यत्र मासोपवासकृत्

204.017

व्रतस्थं मूर्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् ।अप्_204.017अब्।
नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं

204.018

:न्
1 ततः पानयुतानि चेति ख..
2 वै नत इति घ..
3 द्विजान् नत्वाथेति ङ..
:प् 247
क्षीरं गुरोर्हितौषध्व आपो मूलफलानि च ।अप्_204.018अब्।
विष्णुर्महौषधं कर्ता व्रतमस्मात् समुद्धरेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc