अग्नि पुराण · अध्याय 203
:ए इत्य् आग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमो
ऽध्यायः ॥
% छप्तेर् {203}
:श् अथ त्र्यधिकद्विशततमो ऽध्यायः
नरकस्वरूपम्
अग्निर् उवाच
पुष्पाद्यैः पूजनाद्विष्णोर् न याति नरकान्दवे ।अप्_203.001अब्।
आयुषो ऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते
जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।अप्_203.002अब्।
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते
अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ।अप्_203.003अब्।
भुङ्क्ते ऽथ पापकृत् दुःखं सुखं धर्माय सङ्गतः
नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ।अप्_203.004अब्।
कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः
यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(2) ।अप्_203.005अब्।
:न्
1 आसनं मूर्तिषोढाङ्गमिति ख..
2 पात्यते नरकेष्वपि इति ख.. । पात्यते नरके सदा इति ङ.. ।पीड्यते
नरके ऽधुनेति घ.. , छ.. च
:प् 243
स्वर्गे तु नीयते धर्माद् वसिष्ठाद्युक्तिसंश्रयात्
गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ।अप्_203.006अब्।
आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः
महाप्रलयकं यावद्रौरवे पीड्यते शनैः ।अप्_203.007अब्।
स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश् चतुर्दश
महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ।अप्_203.008अब्।
दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत्
नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ।अप्_203.009अब्।
महातामिस्रके सर्पजलौकाद्यैश् च पीड्यते
यावद्भूमिर्मातृहाद्या असिपत्रवने ऽसिभिः(1) ।अप्_203.010अब्।
नैककल्पन्तु नरके करम्भवालुकासु च
येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ।अप्_203.011अब्।
काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः
कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ।अप्_203.012अब्।
सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः
तैलपाके तु तिलवत् पीड्यते परपीडकः ।अप्_203.013अब्।
तैलपाके तु पच्येत शरणागतघातकः
निरुच्छासे दाननाशी रसविक्रयको ऽध्वरे ।अप्_203.014अब्।
नाम्ना वज्रकवाटेन महापाते तदानृती
महाज्वाले पापबुद्धिः क्रकचे ऽगम्यगामिनः ।अप्_203.015अब्।
सङ्करी गुडपाके च(2) प्रतुदेत् परमर्मनुत्
:न्
1 असिपत्रवने ऽग्निभिरिति ङ..
2 गुरुपाके चेति ख.. , ज.. च
:प् 244
क्षारह्रदे(1) प्राणिहन्ता क्षुरधारे च भूमिहृत् ।अप्_203.016अब्।
अम्बरीषे गोस्वर्णहृद् द्रुमच्छिद्वज्रशस्त्रके
मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ।अप्_203.017अब्।
कश्मले ऽत्यन्तमांसाशी उग्रगन्धे ह्य् अपिण्डदः
दुर्धरे तु काचभक्षी वन्दिग्राहरताश् च ये ।अप्_203.018अब्।
मञ्जुषे नरके लोहे ऽप्रतिष्ठे श्रुतिनिन्दकः
पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ।अप्_203.019अब्।
बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत्
विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(2) ॥20
तथाक्रम्य पारदारान् ज्वलन्तीमायसीं शिलां ।अप्_203.021अब्।
शाल्मलाख्ये तमालिङ्गेन् नारी बहुनरङ्गमा
आस्फोटजिह्वोद्धरणं स्त्रीक्षणान् नेत्रभेदनं ।अप्_203.022अब्।
अङ्गारराशौ क्षिप्यन्ते मातृपुत्र्यादिगामिनः
चौराः क्षुरैश् च भिद्यन्ते स्वमांसाशी च मांसभुक् ।अप्_203.023अब्।
मासोपवासकर्ता वै न याति नरकन्नरः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0