भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 202

202.001

:ए इत्य् आग्नेये महापुराणे नवव्यूहार्चनं नाम
एकाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {202}
:श् अथ द्व्यधिकद्विशततमो ऽध्यायः
पुष्पाध्यायकथनं
अग्निर् उवाच
पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः ।अप्_202.001अब्।
पुष्पाणि देवयोग्यानि ह्य् अयोग्यानि वदामि ते

202.002

पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् ।अप्_202.002अब्।
मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा

202.003

अतिमुक्तमयं तद्वत् पाटला विष्णुलोकदा ।अप्_202.003अब्।
:प् 240
करवीरैर् विष्णुलोकी जवापुष्पैश् च पुण्यवान्

202.004

पावन्तीकुब्जकाद्यैश् च तगरैर् विष्णुलोकभाक् ।अप्_202.004अब्।
कर्णिकारैर् विष्णुलोकः करुण्ठैः पापनाशनं

202.005

पद्मैश् च केतकीभिश् च कुन्दपुष्पैः परा गतिः ।अप्_202.005अब्।
वाणपुष्पैर् वर्वराभिः कृष्णाभिर्हरिलोकभाक्

202.006

अशोकैस्तिलकैस्तद्वदटरूषभवैस् तथा ।अप्_202.006अब्।
मुक्तिभागी बिल्वपत्रैः शमीपत्रैः परा गतिः

202.007

विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस् तथा ।अप्_202.007अब्।
तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च

202.008

पद्मं कोकनदं पुण्यं शताब्जमालया हरिः ।अप्_202.008अब्।
नीपार्जुनकदम्बैश् च(1) वकुलैश् च सुगन्धिभिः

202.009

किंशुकैर् मुनिपुष्पैस्तु गोकर्णैर् नागकर्णकैः ।अप्_202.009अब्।
सन्ध्यापुष्पैर् बिल्वतकै रञ्जनीकेतकीभवैः(2)

202.010

कुष्माण्डतिमिरोत्थैश् च कुशकाशशरोद्भवैः ।अप्_202.010अब्।
द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः

202.011

भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति ।अप्_202.011अब्।
स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका

202.012

स्ववने ऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं(3) ।अप्_202.012अब्।
विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः

202.013

काञ्चनारैस्तथोन्मत्तैर्गिरिकर्णिकया तथा ।अप्_202.013अब्।
:न्
1 मुक्तिभागो कदम्बैश्चेति ङ..
2 रजनीकेतकीभवैरिति ख.. , ङ.. , छ.. , ज.. च
3 जलजैः फलमिति ङ..
:प् 241
कुटजैः शाल्मलीयैश् च(1) शिरीषैर् नरकादिकं

202.014

सुगन्धैर्ब्रह्मपद्मैश् च(2) पुष्पैर्नीलोत्पलैर्हरिः(3) ।अप्_202.014अब्।
अर्कमन्दारधुस्तूरकुसुमैरर्च्यते हरः

202.015

कुटजैः कर्कटीपुष्पैः केतकीन्न शिवे ददेत् ।अप्_202.015अब्।
कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं

202.016

अहिंसा इन्द्रियजयः(4) क्षान्तिर्ज्ञानं(5) दया श्रुतं ।अप्_202.016अब्।
भावाष्तपुष्पैः सम्पूज्य देवान् स्याद् भुक्तिमुक्तिभाक्

202.017

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।अप्_202.017अब्।
सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते

202.018

शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं चसप्तमं ।अप्_202.018अब्।
सत्यञ्चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः

202.019

एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ।अप्_202.019अब्।
पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम

202.020

भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति(6) ।अप्_202.020अब्।
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि

202.021

प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं ।अप्_202.021अब्।
फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं

202.022

पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं ।अप्_202.022अब्।
:न्
1 शाल्मलिजैश्चेति ख.. , ग.. , ङ.. च
2 सुगन्धैः पत्रपुष्पैश्चेति ङ..
3 पूज्यो नीलोत्पलैर्हरिरिति ख.. , ग.. , ङ.. , ज.. च
4 अहिंसा इन्द्रियययम इति ग..
5 क्षान्तिर्दानमिति ख..
6 अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्य्
अन्तः पाठः ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट..
पुस्तकेषु नास्ति
:प् 242
श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा चाष्टपुष्पिकाः

202.023

आसनं मूर्तिपञ्चाङ्गं(1) विष्णुर्वा चाष्टपुष्पिकाः ।अप्_202.023अब्।
विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc