अग्नि पुराण · अध्याय 201
:ए इत्य् आग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमो
ऽध्यायः ॥
% छप्तेर् {201}
:श् अथैकाधिकद्विशततमो ऽध्यायः
नवव्यूहार्चनं
अग्निर् उवाच
नवव्यूहार्चनं वक्ष्ये नारदाय हरीरितं ।अप्_201.001अब्।
मण्डले ऽब्जे ऽर्चयेन्मध्ये अवीजं वासुदेवकं
आवीजञ्च सङ्कर्षणम् प्रद्युम्नं च दक्षिणे ।अप्_201.002अब्।
:प् 238
अः अनुरुद्धं नैऋते ओं नारायणमप्सु च
तत् सद्ब्रह्माणमनिले हुं विष्णुं क्षौं नृसिंहकं(1) ।अप्_201.003अब्।
उत्तरे भूर्वराहञ्च ईशे द्वारि च पश्चिमे
कं टं सं शं गरुत्मन्तं पूर्ववक्त्रञ्च दक्षिणे(2) ।अप्_201.004अब्।
खं छं वं हुं फडिति च खं ठं फं शं गदांविधौ
बं णं मं क्षं कोणेशञ्च घं दं भं हंश्रियं यजेत् ।अप्_201.005अब्।
दक्षिणे चोत्तरे पुष्टिं गं डं बं शं स्ववीजकं
पीठस्य पश्चिमे धं वं वनमालाञ्च पश्चिमे ।अप्_201.006अब्।
श्रीवत्सं चैव सं हं लं छं तं यं कौस्तुभं जले
दशमाङ्गक्रमाद्विष्णोर्नमो ऽनन्तमधो ऽर्चयेत् ।अप्_201.007अब्।
दशाङ्गादिमहेन्द्रादीन् पूर्वादौ चतुरो घटान्
तोरणानि वितानं च अग्न्यनिलेन्दुवीजकैः ।अप्_201.008अब्।
मण्डलानि क्रमाद्ध्यात्वा तनुं वन्द्य ततः प्लवेत्
अम्वरस्थं ततो ध्यात्वा सूक्ष्मरूपमथात्मनः ।अप्_201.009अब्।
सितामृते निमग्नञ्च(3) चन्द्रविम्वात् स्रुतेन च
तदेव चात्मनो वीजममृतं प्लवसंस्कृतं ।अप्_201.010अब्।
उत्पाद्यमानं पुरुषमात्मानमुपकल्पयेत्
उत्पन्नो ऽस्मि स्वयं विष्णुर्वीजं द्वादशकं न्यसेत् ।अप्_201.011अब्।
हृच्छिरस्तु शिखा चैव कवचं चास्त्रमेव च
वक्षोमूर्धशिखापृष्ठलोचनेषु न्यसेत पुनः ।अप्_201.012अब्।
अस्त्रं करद्वये न्यस्य ततो दिव्यतनुर्भवेत्
:न्
1 क्रूं विष्णुं क्षौं नृसिंहकमिति ख.. , छ.. , ज.. च
2 पक्षिराजञ्च दक्षिणे इति ङ..
3 सितासिते निमग्नञ्चेति ख.. , ज.. च
:प् 239
यथात्मनि तथा देवे शिष्यदेहे न्यसेत्तथा ।अप्_201.013अब्।
अनिर्माल्या स्मृता पूजा यद्धरेः पूजनं हृदि
सनिर्माल्या मण्डलादौ बद्धनेत्राश् च शिष्यकाः ।अप्_201.014अब्।
पुष्पं क्षिपेयुर्यन्मूर्तौ तस्य तन्नाम कारयेत्
निवेश्य वामतः शिष्यांस्तिलव्रीहिघृतं हुनेत् ।अप्_201.015अब्।
शतमष्टोत्तरं हुत्वा सहस्रं कायशुद्धये
नवव्यूहस्य मूर्तीनामङ्गानां च शताधिकं ।अप्_201.016अब्।
पूऋणान्दत्त्वा दीक्षयेत्तान् गुरुः पूज्यश् च तैर् धनैः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0