भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 200

200.001

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।अप्_199.011अब्।
:ए इत्य् आग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमो
ऽध्यायः ॥
% छप्तेर् {200}
:श् अथ द्विशततमो ऽध्यायः
दीपदानव्रतं
अग्न्निर् उवाच
दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।अप्_200.001अब्।
देवद्विजातिकगृहे दीपदो ऽब्दं स सर्वभाक्

200.002

चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ।अप्_200.002अब्।
दीपदानात् परं नास्ति न भूतं न भविष्यति

200.003

दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।अप्_200.003अब्।
सौभाग्यं दीपदः प्राप्य स्वर्गलोके नहीयते

200.004

विदर्भराजदुहिता ललिता दीपदात्मभाक् ।अप्_200.004अब्।
:प् 236
चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत्

200.005

ददौ दीपसहस्रं सा विष्णोरायतने सती ।अप्_200.005अब्।
पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह

200.006

ललितोवाच
सौवीरराजस्य पुरा मैत्रेयो ऽभूत् पुरोहितः ।अप्_200.006अब्।
तेन चायतनं विष्णोः कारितं देविकातटे

200.007

कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ।अप्_200.007अब्।
वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात्

200.008

निर्वाणवान् प्रदीप्तो ऽभूद्वर्त्या मूषिकया तदा ।अप्_200.008अब्।
मृता राजात्मजा जाता राजपत्नी शताधिका

200.009

असङ्कल्पितमप्यस्य प्रेरणं यत् कृतं मया ।अप्_200.009अब्।
विष्णायतनदीपस्य तस्येदं भुज्यते फलं

200.010

जातिस्मरा ह्य् अतो दीपान् प्रयच्छामि त्वहर् निशं ।अप्_200.010अब्।
एकदश्यां दीपदो वै विमाने दिवि मोदते

200.011

जायते दीपहर्ता तु मूको वा जड एव च ।अप्_200.011अब्।
अन्धे तमसि दुष्पारे नरके पतते किल

200.012

विक्रोशमानांश् च नरान् यमकिङ्कराहतान् ।अप्_200.012अब्।
विलापैर् अलमत्रापि किं वो विलपिते फलं

200.013

यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ।अप्_200.013अब्।
जन्तुर्जन्मसहस्रेभ्यो ह्य् एकस्मिन् मानुषो यदि

200.014

तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।अप्_200.014अब्।
स्वहितं(1) विषयास्वादैः क्रन्दनं तदिहागतं

200.015

:न्
1 हर्षितमिति ख.. , ग.. , घ.. च । दूषितमिति ङ..
:प् 237
भुज्यते च कृतं पूर्वमेतत् किं वो न चिन्तितं ।अप्_200.015अब्।
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः

200.016

मुहूर्तविषयास्वादो ऽनेककोट्यव्ददुःखदः ।अप्_200.016अब्।
परस्त्रीहारियद्गीतं हा मातः किं विलप्यते

200.017

को ऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने ।अप्_200.017अब्।
वर्तितैले ऽल्पमूल्ये ऽपि यदग्निर्लभ्यते सदा

200.018

दानाशक्तैर् हरेर्दीपो हृतस्तद्वो ऽस्ति दुःखदं ।अप्_200.018अब्।
इदानीं किं विलापेन सहध्वं यदुपागतं

200.019

अग्निर् उवाच
ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः ।अप्_200.019अब्।
तस्माद्दीपप्रदानेन व्रतानामधिकं फलं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc